विकिस्रोतः sawikisource https://sa.wikisource.org/wiki/%E0%A4%AE%E0%A5%81%E0%A4%96%E0%A5%8D%E0%A4%AF%E0%A4%AA%E0%A5%83%E0%A4%B7%E0%A5%8D%E0%A4%A0%E0%A4%AE%E0%A5%8D MediaWiki 1.44.0-wmf.3 first-letter माध्यमम् विशेषः सम्भाषणम् सदस्यः सदस्यसम्भाषणम् विकिस्रोतः विकिस्रोतःसम्भाषणम् सञ्चिका सञ्चिकासम्भाषणम् मीडियाविकि मीडियाविकिसम्भाषणम् फलकम् फलकसम्भाषणम् साहाय्यम् साहाय्यसम्भाषणम् वर्गः वर्गसम्भाषणम् प्रवेशद्वारम् प्रवेशद्वारसम्भाषणम् लेखकः लेखकसम्भाषणम् पृष्ठम् पृष्ठसम्भाषणम् अनुक्रमणिका अनुक्रमणिकासम्भाषणम् श्रव्यम् श्रव्यसम्भाषणम् TimedText TimedText talk पटलम् पटलसम्भाषणम् पृष्ठम्:हितोपदेशः.djvu/५३ 104 85225 404693 205299 2024-11-12T13:53:34Z Geeta g hegde 6704 404693 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Manjunath Ka Ho" />{{rh|left=सुहृद्भेदः. ]|center=|right=५३}}</noinclude> {{gap}}करटको ब्रूते- ' तथापि किमनेनास्माक व्यापारेण १ यतोऽव्यापारेषु व्यापार सर्वथा पारिहरणीय. । पश्य- {{bold|<poem>अव्यापारेषु व्यापार यो नरः कर्तुमिच्छति । स भूमौ निहतः शेते कीलोत्पाटीव वानरः ॥२७॥</poem>}} दमनक. पृच्छति-* कथमेतत् १ करटक कथयति-- {{center|<poem>{{bold|कथा १.}}</poem>}} {{gap}}मगधदेश धर्मारण्यसनिहितवसुधाया शुभदत्तनाम्ना कायस्थेन प्रासाद' कर्त- मारब्ध । वत्र करपत्रदार्यमाणैकस्तम्भस्य कियहूरस्फाटितस्य काष्ठखण्डद्वयमध्ये कोलकः सूत्रधारेण निहित , तत्र बलवान्वानरयूथ क्रीडचागतः । तेषु एको वानरः कालप्रेरित इव त कीलक हस्ताभ्या धृत्वोपविष्ट । तत्र तस्य मुष्कद्वयं लम्बमान काष्ठखण्डद्वयाभ्यन्तरे प्रविष्टम् । अवन्तर स च सहजचपलतया महता प्रयत्नेन त कीलकमाकृष्टवान्, आकृष्टे च कीलके काष्ठाभ्या चूर्णिताण्डद्वय. पञ्चत्व गतः । अतोऽह ब्रवीमि-अव्यापारेषु व्यापारम्' इत्यादि । {{gap}} दमनको ब्रूते- तथापि स्वामिचेष्टानिरूपण सेवकेनावश्य करणीयम् ।' करटको ब्रूते-- * सर्वस्मिन्नविकारे य एव नियुक्त प्रधानमन्त्री से करोतु । यतोऽनुजीविना पराधिकारचर्चा सर्वथा न कर्तव्यो । पश्य- {{bold|<poem>पराधिकारचर्चा यः कुर्यात्स्वामिाहतेच्छया । स विषीदातचीत्काराद्र्दभस्ताडितो यथा ॥ २८ ॥</poem>}} दमनक. पृच्छति- ' कथमेतत् १' करटको ब्रूते-- {{center|<poem>{{bold|कथा २,}}</poem>}} {{gap}}* अस्ति धाराणस्या करपटो नाम रजकः । स चैकदाभिनववयस्कया वध्वा सह चिरं निधुवन कृत्वा निर्भरमालिङ्ग्य प्रसुप्त । तदनन्तरं तद्गृहद्रव्याणि हतु चौर' प्रविष्ट. । तस्य प्राङ्गणे गर्दभो बद्धस्तिष्ठति, कुक्कुरश्चोपविष्टोऽस्ति । अथ गर्दभ श्वानमाह- सखे ! भवतस्तावदय व्यापार , तत्किमिति त्वमुच्चैः शब्दं कृत्वा स्वामिन न जागरयसि १ ' कुक्कुरो ब्रूते -* भद्र ! मुम नियोगस्य<noinclude></noinclude> tvnawkr1dgdcot1csa4bi24h5m8etr0 पृष्ठम्:भारतानुवर्णनम्.djvu/४३ 104 127062 404694 344978 2024-11-13T05:48:00Z Shubha 190 /* शोधितम् */ 404694 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Shubha" />{{center|२८}}</noinclude>राजाभवत् । महाभारतसमयेऽस्य राज्यस्य भगदत्तो राजा बभूव | भगदत्तस्य <ref>Chinese.</ref>'चीना' हिमालयपादस्थाः किराताश्च वशेऽभवन् । तैः सहितम् एनम् अर्जुनो जिगाय । अस्य राजधानी 'प्राग्ज्यौतिषं' नाम || {{gap}}'''भर्मदेशः'''— भारतस्य पूर्वसीमायां 'भर्मदेशो'ऽस्ति । स देश: 'सुवर्णभूमिः' इत्युच्यते । एष धान्यानां <ref>उत्पत्तिस्थानैः</ref>भवनैः क्षेत्रै रत्नानाम् आकरैश्वोपसम्पन्नश्चकास्ति । अस्य राजधानी 'अमरपुरम् ॥ {{gap}}'''निषधाः'''- - सिन्धुनद्यास्तीरे निषधदेशः । तस्य <ref>Narwar.</ref>‘नर्वार्’ इति व्यपदिश्यमानं 'नलपुरं' राजधानी सम्भाव्यते । अत्र भारतप्रसिद्धो नलो नाम राजा राज्यमशिषत् ॥ {{gap}}'''चेदिदेशः'''--<ref>Chandali.</ref>'चन्दरी' इति सम्प्रति मालवेषु विदितां पुरीं 'चेदिपुरीं' वदन्ति । तेनोपलक्षितो देशः 'चेदिदेशो' भवति । अत्र श्रीकृष्णस्पर्धी शिशुपालो राजा बभूव ॥ {{rule}}<noinclude></noinclude> kccs0byqh2fesf2luebla9zsnwubjtl पृष्ठम्:भारतानुवर्णनम्.djvu/४४ 104 127063 404696 344979 2024-11-13T06:52:35Z Shubha 190 /* शोधितम् */ 404696 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Shubha" />{{center|२९ }}</noinclude> {{gap}}'''मालवाः'''-स <ref>Malwa.</ref>’मालवदेशो’, यत्र <ref>Oujain.</ref>उज्जयिनी <ref>Dholpur, on the Chambal. </ref>दशपुरं च नगरे; <ref>Dhar. </ref>धारा च । अस्य ’अविन्तिदेश’ इति नामान्तरम्‌ अस्ति । उज्जयिनी चावन्तिपुरीत्युच्यते । उज्जयिनी पुरा ग्रहपरीक्षकैः <ref>Meridian.</ref>खमध्यस्थानं कल्पितम्‌ आसीत्‌ । उज्जयिन्यां प्रख्यातं शिवक्षेत्रम्‌ अस्ति, यत्र देवो महाकालनाम्ना प्रथते ॥ {{gap}}'''दशार्णाः'''--मालवानां पूर्वं भागं दशार्णदेशं वदन्ति । अस्य राजधानी वेत्रवत्यास्तीरे <ref>Bilsa.</ref>’विदिशा’ इति नाम्ना बभूव ॥ {{gap}}'''सौराष्ट्राः'''--’सौराष्ट्रदेशो ' मालवदेशात्‌ पश्चिमतोऽस्ति । अयम्‌ अद्यत्वे <ref>Guzarat. </ref>’गुर्जरदेश’ इयुच्यते। इदं श्रीकृष्णस्य राज्यम्‌ आसीत्‌ । अत्र ’द्वारका’ नाम नगरी विद्यते । अस्या दक्षिणपूर्वत उपशतक्रोशदूरे पुरातनी द्वारकापुरी आसीत्‌ । इयं ’द्वारावती' इत्यपि कथ्यते । इदं नगरं देशस्यानर्तसंज्ञया ’आनर्तनगरम्‌’ इत्यप्याख्यातं बभूव । {{rule}}<noinclude></noinclude> d7rmat7smi5xlvsyqhyjqe2pbdao0ij पृष्ठम्:न्यायलीलावती.djvu/६४६ 104 134278 404695 358196 2024-11-13T06:27:54Z Swaminathan sitapathi 4227 /* शोधितम् */ 404695 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Swaminathan sitapathi" />{{rh|left=|center='''न्यायलीलावतीकण्ठाभरण- सविवृतिप्रकाशोद्भासिता '''|right=५६६}}</noinclude> {{center|न्यायलीलावतीकण्ठाभरणम्}} धारवश्वस्य जनकत्वात् । अदृष्टानाधारकालानाधारत्वम् गन्धानाधारकालानाधाराभावत्वं च लीलावतीकारमते सर्वमुक्त्यनभ्युपगमे न दृष्टम् । प्रतियोग्यन्यूनानतिरिक्त कालीनाधिक सामयिकपरत्वाश्रयसमानकालीन कादाचित्काभावत्वं तु न लक्षणं शब्दबुध्यादिप्रागभावाव्याप्ते, न हि क्षणद्वयमात्रस्थायि मूर्तं संभवति, सम्भवे आद्यशब्दप्रागभावे च तथाप्यव्याप्तिः, प्रलयकालीनचरम क्रियाप्रागभावाव्याप्तिः, ब्रह्माण्डान्तरसत्त्वेपि तम्मूर्तनिरूपितपरत्वोपेते प्रमाणाभावात् । प्रतियोगित्वं च प्रागभावप्रतियोगित्वमेव वाच्यं तथा चात्माश्रयः, {{center|न्यायलीलावती प्रकाशविकृतिः}} एवान्त्य शब्दप्रागभावेऽपि नाप्रसिद्धिनिबन्धनाव्याप्तिः, यथाश्रुते तस्या अपि प्रसङ्गात् । केचित्तु प्रतियोगिकालनेत्येव विवक्षितम् । न च प्रतियोग्युत्तरोत्पन्नमादायासम्भवः । नहि प्रतियोगिकालीनेत्यत्रापि यावत्वं विशेषणम्, किन्तु परत्वे परत्वाश्रये वा । तथाच प्रतियोगिसहोत्पश्चं प्रतियोगिपूर्वोत्पन्नमेव प्रतियोगिलमानकालं वा गृहीत्वा लक्षणस्य सुवचत्वात् । एतेनान्त्यशब्दप्रागभावेऽपि लक्षणसङ्गतिः । न च प्रतियोगिध्वंसाव्यवहित पूर्वोत्पन्नद्रव्यमादाय ध्वंसेतिव्याप्तिः, तद्वधिकपरत्वस्य पूर्वकालविनष्टेऽसम्भवात् । पूर्वमेतस्यानुत्पत्तेरिदानीं च तस्यैव नाशात् परत्वापरत्वयोश्चैकदैवोभयत्रोपपत्तेरिति वाच्यम् । परत्वाश्रयपदेन परत्वाश्रयत्वयोग्यस्य विवक्षितत्वात् योग्यतायाश्च पूर्वविनष्टेऽपि सत्वादिति वदन्ति । तदयुक्त्तम्। योग्यतावच्छेदकं हि पूर्वोत्पन्नत्वमेव वाच्यम्, तच्च प्रागभावघटितमित्यात्माश्रयात्, तस्माद्योग्यताऽघटितमेव लक्षणं वाच्यमितिशङ्किताव्यातिनिरासाय यावत्स्वमनुगतप्रतियोगिकालीनेऽपि विशेषणमित्यसम्भव एवेति पूर्वव्याख्यैव साधुः ।न च पूर्वव्याख्यानेऽपि यत्र तादृशं द्रव्यं नास्त्यनिश्चितं वा तत्प्रागभावेऽतिव्याप्तिरिति दोषः, तादृशद्रव्यस्य व्यणुकादेरन्यस्य वा सर्वत्र सम्भवात् । निश्चयस्तु तस्यापाततो मास्तु, उत्तरकालंतु अनुमानादिना स्यादेव। प्रतीतिविषयस्तु स्वरूपसम्बन्धविशेष एव । एवमनभ्युपगमे यावत्परत्वाध्याप्रत्यक्षतया लक्षणाशानापत्तेश्च । परत्वं च कालपिण्डसंयोगासमवायिकारणकं विजातीयमेव लक्षणपविष्ठतः प्रतियोगित्वनिष्ठस्यापि दैशिकपरत्वाश्रयत्वादव्याप्तिरपा-<noinclude></noinclude> n9o57l7ay2krg2rtdgcyou02nz6hb9u पृष्ठम्:न्यायलीलावती.djvu/६४७ 104 134279 404697 358197 2024-11-13T07:02:31Z Swaminathan sitapathi 4227 /* शोधितम् */ 404697 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Swaminathan sitapathi" />{{rh|left=५७०|center='''न्यायलीलावती'''|right=}}</noinclude> {{center|न्यायलीलावतीकण्ठाभरणम्}} अन्यथाभिधाने चातिव्याप्तिः । प्रागभावेति । प्रागभावनिवृत्तिर्घटस्तन्निवृत्तौ तद्ध्वंसे सति तदुन्मज्जनं तत्तादवस्थ्यमित्यर्थः । तद्विरोधित्वादि- {{center|न्यायलीलावतीप्रकाशः}} योगी विनष्टः परत्वाश्रयश्च विद्यते तत्र न ध्वंसेऽतिव्याप्तिः, प्रलयकाले ब्रह्माण्डान्सरवृत्तिद्रव्यस्य परत्वाश्रयस्य सत्त्वान्न तत्कालीनक्रियायामव्याप्तिः । प्रागभावेति । प्रागभावनिवृत्ति र्घटस्तन्निवृत्तौ तध्द्वसे प्रागभावोन्मञ्जनापत्तिः प्रागभावाभावानाधारकालस्य प्रागभावाघारत्व- {{center|न्यायलीलावतीप्रकाशविवृतिः}} स्ता । क्वचित्तु सामयिकेति पदमेव तदर्थकमस्ति । प्रतियोगिज्येष्ठे प्रतियोगिनाशोत्तरवर्त्तमाने तादृशपरत्वसत्त्वात्तमादाय ध्वंसेऽतिव्याप्तिरिति यावत्पदं परत्वविशेषणम् । प्रतिक्षणं कस्यचिद्रव्यस्य नाशनियमान्न विशेषणदानेपयुक्तदोषः । न च यावत्परत्वाश्रयाप्रसिद्धिः, यावतामेव प्रसिद्धेः । केचित्तु यावत्वमाश्रयविशेषणमेव विशेषणसावधित्वादेव च विशिष्टसावधित्वमिति नान्वयः | आश्रयपर्यन्तधावनं तु प्रतियोगिन्युत्पन्ने तज्ज्येष्ठे यत्परत्वमुत्पद्यते तमादायातिव्याप्तिवारणाय । अत्यन्ताभावादावतिव्याप्तिवारणाय कादाचित्कपदम्। अभावपदं स्वरूपाख्यानपरम् । सर्गाद्यकालीनद्यणुकप्रागभावे च ब्रह्माण्डान्तर्वर्त्तिद्रव्यमादाय लक्षणसम्भवः। महाप्रलयानभ्युपगमेनैवेदं लक्षणमतो न चरमक्रियाप्रागभावाव्याप्तिः । न च ध्वंसप्रागभावात्मनि घटादावव्याप्तिः, तस्यालक्ष्यत्वात् । न च वर्गसंसर्गस्थायिनोऽदृष्टादेः प्रागभावेऽव्याप्तिः, तदन्यूनकालीनानित्यद्रव्णभावान्नित्यद्रव्यस्य च परत्वानवघित्वादिति वाच्यम् । प्रतियोगिकालीनस्यैव प्रतियोग्यन्यूनानति रिक्तकालीनपदार्थत्वात् । न चैवमसम्भवः, प्रतियोग्युत्तरोत्पत्तिकप्रतियोगिसमानकालीनाबधिकपरत्वाधिकरणप्रतियोग्यसमानकालत्वात्प्रागभावस्येति वाच्यम्। यावत्वविशेषणत्यागात्। नचैवं ध्वंसातिव्यातिरिति वाच्यम् । प्रतियोगिकालावृत्तित्वस्य परत्वाश्रये विशेषणत्वात् | तल्लाभार्थमेव च यावत्पदोपादानात् ग्रन्थाधिक्यादिति न्यायात् । यत्तु प्रतियोगिकालनियत्किञ्चित्पदार्थावधिकयावत्परत्वाश्रयसमानकालीनत्वमेवार्थ इति प्रतियोगिसहोत्पन्नद्रव्यमादायैव लक्षणमिति नासम्भव इति । तन्न । तथासति प्रतियोगिविनश्यत्क्ष<noinclude></noinclude> qn7v277nopfjzavh9lr30cmqbltt8qf पृष्ठम्:न्यायलीलावती.djvu/६४८ 104 134280 404698 358198 2024-11-13T09:23:02Z Swaminathan sitapathi 4227 /* शोधितम् */ 404698 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Swaminathan sitapathi" />{{rh|left=|center='''न्यायलीलावतीकण्ठाभरण- सविवृतिप्रकाशोद्भासितां'''|right=५७१}}</noinclude> चेत् । न । एकप्रतियोगिनोरन्यतरनिषेधस्यान्यतरविधान- {{rule|5em}} {{center|न्यायलोलावतीकण्ठाभरणम्}} ति । प्रागभावविरोधित्वात् इत्यर्थः । एवमिति । ध्वंसनिवृत्तिरूपतया भावत्वं घटनिवृत्तिरूपतया चाभावत्वमेकस्य प्रागभावस्य च स्यात् । एवं ध्वंसेपि वक्तव्यम् । अभावात्मा प्रागभावो यद्यभावप्रतियोगिकः स्यात्तदभावः स्यात्, एवं ध्वंसमपि पक्षीकृत्य समर्थनीयम् । भावाभावबृत्येति । भावाभावविधिचरितयेत्यर्थः । विधति । भावविरोधित्वं नाभावत्वे तन्त्र, नाप्यभावविरोधित्वं भावत्वे, किन्तु विधिमुखप्रत्ययावेद्यत्वं तद्वेद्यत्वं च यथाक्रमम्, तथाच तर्कस्थलव्याप्तौ अप्रयोजकत्वमुक्तम् । तन्निषेधेति । परस्परविरहरूपत्वं भावाभावयोर्भज्येतेत्यर्थः । एकप्रतियोगिनोरिति । यत्र एकमात्रं प्रतियोगि तत्र भावाभावयोः {{center|न्यायलीलावतीप्रकाशः}} नियमादित्यर्थः । तद्विरोधित्वात् प्रागभावविरोधित्वादित्यर्थः । एवमिति । ध्वंसस्याभावप्रतियोगिकत्वे सतीत्यर्थः । न चापाद्याप्रसिद्धिः, अभावात्मा ध्वंसो यद्यभावप्रतिप्रतियोगिकः स्याद्भावः स्यादित्यर्थः । अत्र विधित्वमुपाधिरिति न प्रागभावनिवृत्तिघंटाद्यात्मकत्वनियम इत्याह विधिमुखेति । अत्रोपाधे: साधनव्यापकत्वादनुकूलत लतर्काभावादप्रयोजकत्वमभिप्रेतम् । न च ध्वंसप्रागभावयोरन्योन्य प्रतियोगिकत्वेऽन्योन्यनिरूपणाधीन निरूपणेत्वापत्तिः, अभावस्य अभावत्वेनैव निरूपणे तदपेक्षणातू, प्रमेयत्वादिना निरूपणे प्रतियोगिज्ञाननपेक्षणात् । तन्निषेषेति । तनिषेधः प्रागभावप्रतिषेधो घटस्तस्य प्रध्वंसस्तस्य वि- {{center|न्यायलीलावतीप्रकाशविवृतिः}} णजातद्रव्यावधिकपरत्वाश्रयस्यापि नाशादिति योजना । प्रलयकालेति । सर्वत्र ब्रह्माण्डे युगपत्प्रलये मानाभावादिति भावः । तत्कालीनक्रियायां तत्कालीनक्रियामागभाव इत्यर्थः । अभावप्रतियोगिकत्वे सतीति भावत्वे हेतुरभावत्वे च भावप्रतियोगि कत्वं हेतुरुभ्यासिद्ध एवेति भावः । अत्रोपाधेरिति । अत्राप्रयोजकत्वमभिप्रेतमुक्तोपाघेः साधनव्यापकत्वादित्यर्थः । केचित्तु साधनव्यापकताया मेवाप्रयोजक त्वमित्युपाधिरेव स इत्यर्थ इति वदन्ति । तदयुक्तम् । पञ्चम्यनन्वयापत्तेः । अभावत्वेनेति । तद्मावत्वेनेत्यर्थः । यावत्प्रतियोगिनिरूप्यत्वे<noinclude></noinclude> 4fdozou2nhqd07o0d20yp0v1zf4qzh9 पृष्ठम्:न्यायलीलावती.djvu/६४९ 104 134281 404699 358199 2024-11-13T09:53:20Z Swaminathan sitapathi 4227 /* शोधितम् */ 404699 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Swaminathan sitapathi" />{{rh|left=५७२|center='''न्यायलीलावती'''|right=}}</noinclude> नियमात् । उभयविरोधिनि तु घटवत्तदभावात् । तथापि परस्पराभावात्मकता कुत इति प्रश्नेऽपि अन्यतरविषयस्यान्यतरवि- धिनियमाभावेऽपि एकतरविधेरपरनिषेधनियामकत्वादिदमुत्तरम् । नहि प्रध्वंसविधौ न प्रागभावनिषेधः । तद्विधौ च न प्रध्वंसनिषेधः । एवंसति ध्वंसोऽपि नश्येत् कृतकत्वात् । प्रागभावोऽपि जायेत, नाशित्वात् | उन्मज्जनापत्तेचिरमिह निहतत्वात् । अन्यथा तु प्रकृतेऽपि न समाधिरिति चेत् । न । असंभवद्विरुद्ध- {{rule|5em}} {{center|न्यायलीलावतीकण्ठाभरणम्}} परस्परविरहरूपत्वं यथा गोत्वगोत्वात्यन्ताभावयोः प्रकृते तु घटतद्ध्वंसतत्प्रागभावानामुभयोभयविरोधित्वान्न तथेत्यर्थः । परस्पराभावात्मकता कुत इति । परस्पराभावात्मकता व्यवहारः कुत इति ध्वंसादीनामिति प्रश्नार्थः । परस्परविरहव्याप्यत्वनिबन्धन इत्याह अन्यतरेति । एतदेवाह नहीति । तर्हि नीलपीतादावपि तथा स्यादिति चेत् । न । अभावत्वे सतीति विवक्षितत्वात् । उन्मज्जनापत्तरिति । अन्योन्यवि रोधिसत्वकाले कथमन्योन्योन्मज्जनं स्यादित्युक्तत्वादित्यर्थः । तथाच घटध्वंसस्यापि घटविरोधित्वान्न तदा तदुन्मज्जनमिति भावः। अन्यथेति । घटध्वंसकालेऽपि तथासति प्रागभावोन्मज्जनं स्यादेवेति प्रकृतेऽपि न समाधिरित्यर्थः । असंभवदिति । प्रध्वंसप्रागभावयोरेकत्वेन प्रत्यभिज्ञानाच नाशोत्पादौ, तयोरनुमाने च भावत्वमुपाधिरित्यर्थः । {{center|न्यायलीलावतीप्रकाशः}} धावित्यर्थः । एकेति । यत्र द्वयोरेव मिथो विरोधस्तत्र तथा, अत्र त्वेकस्योभाभ्यां विरोध इत्यर्थः। घटवदिति । यथा घटे सति प्रागभावो नांस्ति तथा प्रध्वंसे सतीति तस्यापि विरोधित्वादित्यर्थः । एवंसंतीतिः । ध्वंसस्योत्पत्तिमत्त्वे प्रागभावस्य नाशित्वे सतीत्यर्थः । न चैवं घटप्रध्वंसनाशकाले घटोन्मजनमेवं तत्र प्रागभावोत्पतेः पूर्व घटः स्यादित्याह उन्मज्ञ्जनेति । ध्वंसध्वंसस्यापि घटविराधित्वादेवं प्रागभावप्रागभावस्यापीत्यर्थः । अन्यथेति । प्रागभावस्य घटध्वंसोभयविरोधित्वेऽपि घटब्बंञ्चे जाते तत्प्रागभावोन्मज्जनाप त्तेरित्यर्थः । असम्भवदिति । प्रत्य-<noinclude></noinclude> 6h9lpkwr92j9wvtdr5mai7e14ry09y5 पृष्ठम्:न्यायलीलावती.djvu/६५० 104 134282 404700 358200 2024-11-13T10:37:59Z Swaminathan sitapathi 4227 /* शोधितम् */ 404700 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Swaminathan sitapathi" />{{rh|left=|center='''न्यायलीलावतीकण्ठाभरण-सविवृतिप्रकाशोद्भासिता'''|right=५७३}}</noinclude> धर्मासंसर्गप्रत्यभिज्ञानप्रतिक्षिप्तत्वादनुमानानां लाघवाच्च । पूर्वोत्तराबधिरहितस्तु संसर्गप्रतियोगि कोऽभावोऽत्यन्ताभावः । {{rule|5em}} {{center|न्यायलीलावतीकण्टाभरणम्}} लाघवाचेति । बहूनां ध्वंसानां घंटे विरोधित्वाभ्युपगमे गौरवं स्यादिस्यर्थः । पूर्वोत्तरेति । प्रागभावव्यावृत्यर्थम् उत्तरेति, ध्वंसव्यावृत्यर्थम् संसर्गप्रतियोगिक इति, अन्योन्याभावव्यावर्तनाय चान्योन्याभावेति पदं देयम् । {{center|न्यायलीलावतीप्रकाशः}} भिज्ञानात्पूर्व चिरकालीनयोर्ध्वसप्रागभावयोरभेदसिद्धौ उभयोशोत्पत्त्यनुमानं बाधितमित्यर्थः । साधनावच्छिन्न साध्यव्यापकं भावत्वमुपाधि : सन्नपि स्फुटत्वानोक्तः । लाघवात कल्पनालाघवादपि तयोरकैयं सिद्धमित्यर्थः । पूर्वोत्तरेति । पूर्वोत्तरेत्यनेन ध्वंसप्रागभावयोर्यावृत्तिः, संसर्गेत्यनेनान्योन्याभावस्य । ननु घटसंसर्गः पटो न भवतीत्यत्रा न्योन्याभावेऽतिव्याप्तमिदम् । न च संसर्गाभावत्वे संतीति विशेषणीयम, तदनिरुक्तेः । न च प्रतियोगिवृत्तिरभावोऽत्यन्ताभावः नित्यत्वात्यन्ताभावेऽतिव्याप्तेः प्रमेयत्वव ( १ ) न्नित्यत्वस्य स्वात्मन्यपि वृत्ते:, अन्यथा नित्यत्वाभावकाले व्योमादेरनित्यतापत्तेः । न च मित्यत्वम नेकमननुगमात् । अत्राहुः । सदातनः संसर्गभावोऽत्यन्ताभावः, संसर्गाभावश्च संसर्गावच्छिन्न प्रतियोगिकोऽभावः, घटसंसर्गः पढ़ो नेत्यत्र तु संसर्गप्रतियोगिकत्वेऽपि तादात्म्यं प्रतियोगितावच्छेदकं न तु संसर्गः । अस्मत्पितृचरणास्तु प्रतियोग्यधिकरणयोः संसर्गमा- {{center|न्यायलीलावती प्रकाशविवृतिः}} गौरवादिति भावः । ध्वंसप्रागभावयोरिति । ध्वंसयोः प्रागभावयोश्चत्यर्थः । नाशोत्पत्तीति । नांशानुमानमुत्पश्यनुमानं च यथासंख्यमन्वयः । मूले च बहुवचनं द्वित्वाभिप्रायमेवेति भावः । तस्येति । नित्यत्वस्येत्यर्थः । अननुगमादिति । तथाचानुगतप्रतीत्या तस्यैकत्वसिद्धिरिति भावः । ननु संसर्गस्य न प्रतियोगितावच्छेदकत्वं सर्वत्र तथासति संसर्गों नेति सर्वत्र प्रत्ययांपत्तेरित्यरुचे- (१) विवृतिकारमतेनात्र 'वत्तस्य' इति पाठो बोध्यः ।<noinclude></noinclude> niddf1wvvxybtc0k50lig3f6g84o9in 404701 404700 2024-11-13T10:38:51Z Swaminathan sitapathi 4227 404701 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Swaminathan sitapathi" />{{rh|left=|center='''न्यायलीलावतीकण्ठाभरण-सविवृतिप्रकाशोद्भासिता'''|right=५७३}}</noinclude> धर्मासंसर्गप्रत्यभिज्ञानप्रतिक्षिप्तत्वादनुमानानां लाघवाच्च । पूर्वोत्तराबधिरहितस्तु संसर्गप्रतियोगि कोऽभावोऽत्यन्ताभावः । {{rule|5em}} {{center|न्यायलीलावतीकण्टाभरणम्}} लाघवाचेति । बहूनां ध्वंसानां घंटे विरोधित्वाभ्युपगमे गौरवं स्यादिस्यर्थः । पूर्वोत्तरेति । प्रागभावव्यावृत्यर्थम् उत्तरेति, ध्वंसव्यावृत्यर्थम् संसर्गप्रतियोगिक इति, अन्योन्याभावव्यावर्तनाय चान्योन्याभावेति पदं देयम् । {{center|न्यायलीलावतीप्रकाशः}} भिज्ञानात्पूर्व चिरकालीनयोर्ध्वसप्रागभावयोरभेदसिद्धौ उभयोशोत्पत्त्यनुमानं बाधितमित्यर्थः । साधनावच्छिन्न साध्यव्यापकं भावत्वमुपाधि : सन्नपि स्फुटत्वानोक्तः । लाघवात कल्पनालाघवादपि तयोरकैयं सिद्धमित्यर्थः । पूर्वोत्तरेति । पूर्वोत्तरेत्यनेन ध्वंसप्रागभावयोर्यावृत्तिः, संसर्गेत्यनेनान्योन्याभावस्य । ननु घटसंसर्गः पटो न भवतीत्यत्रा न्योन्याभावेऽतिव्याप्तमिदम् । न च संसर्गाभावत्वे संतीति विशेषणीयम, तदनिरुक्तेः । न च प्रतियोगिवृत्तिरभावोऽत्यन्ताभावः नित्यत्वात्यन्ताभावेऽतिव्याप्तेः प्रमेयत्वव <ref>विवृतिकारमतेनात्र 'वत्तस्य' इति पाठो बोध्यः ।</ref> न्नित्यत्वस्य स्वात्मन्यपि वृत्ते:, अन्यथा नित्यत्वाभावकाले व्योमादेरनित्यतापत्तेः । न च मित्यत्वम नेकमननुगमात् । अत्राहुः । सदातनः संसर्गभावोऽत्यन्ताभावः, संसर्गाभावश्च संसर्गावच्छिन्न प्रतियोगिकोऽभावः, घटसंसर्गः पढ़ो नेत्यत्र तु संसर्गप्रतियोगिकत्वेऽपि तादात्म्यं प्रतियोगितावच्छेदकं न तु संसर्गः । अस्मत्पितृचरणास्तु प्रतियोग्यधिकरणयोः संसर्गमा- {{center|न्यायलीलावती प्रकाशविवृतिः}} गौरवादिति भावः । ध्वंसप्रागभावयोरिति । ध्वंसयोः प्रागभावयोश्चत्यर्थः । नाशोत्पत्तीति । नांशानुमानमुत्पश्यनुमानं च यथासंख्यमन्वयः । मूले च बहुवचनं द्वित्वाभिप्रायमेवेति भावः । {{gap}}तस्येति । नित्यत्वस्येत्यर्थः । अननुगमादिति । तथाचानुगतप्रतीत्या तस्यैकत्वसिद्धिरिति भावः । ननु संसर्गस्य न प्रतियोगितावच्छेदकत्वं सर्वत्र तथासति संसर्गों नेति सर्वत्र प्रत्ययांपत्तेरित्यरुचे- {{rule}}<noinclude></noinclude> 0ekcyk07zwzr4nhgetsraixubndpuyk 404702 404701 2024-11-13T10:39:10Z Swaminathan sitapathi 4227 404702 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Swaminathan sitapathi" />{{rh|left=|center='''न्यायलीलावतीकण्ठाभरण-सविवृतिप्रकाशोद्भासिता'''|right=५७३}}</noinclude> धर्मासंसर्गप्रत्यभिज्ञानप्रतिक्षिप्तत्वादनुमानानां लाघवाच्च । पूर्वोत्तराबधिरहितस्तु संसर्गप्रतियोगि कोऽभावोऽत्यन्ताभावः । {{rule|5em}} {{center|न्यायलीलावतीकण्टाभरणम्}} लाघवाचेति । बहूनां ध्वंसानां घंटे विरोधित्वाभ्युपगमे गौरवं स्यादिस्यर्थः । पूर्वोत्तरेति । प्रागभावव्यावृत्यर्थम् उत्तरेति, ध्वंसव्यावृत्यर्थम् संसर्गप्रतियोगिक इति, अन्योन्याभावव्यावर्तनाय चान्योन्याभावेति पदं देयम् । {{center|न्यायलीलावतीप्रकाशः}} भिज्ञानात्पूर्व चिरकालीनयोर्ध्वसप्रागभावयोरभेदसिद्धौ उभयोशोत्पत्त्यनुमानं बाधितमित्यर्थः । साधनावच्छिन्न साध्यव्यापकं भावत्वमुपाधि : सन्नपि स्फुटत्वानोक्तः । लाघवात कल्पनालाघवादपि तयोरकैयं सिद्धमित्यर्थः । पूर्वोत्तरेति । पूर्वोत्तरेत्यनेन ध्वंसप्रागभावयोर्यावृत्तिः, संसर्गेत्यनेनान्योन्याभावस्य । ननु घटसंसर्गः पटो न भवतीत्यत्रा न्योन्याभावेऽतिव्याप्तमिदम् । न च संसर्गाभावत्वे संतीति विशेषणीयम, तदनिरुक्तेः । न च प्रतियोगिवृत्तिरभावोऽत्यन्ताभावः नित्यत्वात्यन्ताभावेऽतिव्याप्तेः प्रमेयत्वव <ref>विवृतिकारमतेनात्र 'वत्तस्य' इति पाठो बोध्यः ।</ref> न्नित्यत्वस्य स्वात्मन्यपि वृत्ते:, अन्यथा नित्यत्वाभावकाले व्योमादेरनित्यतापत्तेः । न च मित्यत्वम नेकमननुगमात् । अत्राहुः । सदातनः संसर्गभावोऽत्यन्ताभावः, संसर्गाभावश्च संसर्गावच्छिन्न प्रतियोगिकोऽभावः, घटसंसर्गः पढ़ो नेत्यत्र तु संसर्गप्रतियोगिकत्वेऽपि तादात्म्यं प्रतियोगितावच्छेदकं न तु संसर्गः । अस्मत्पितृचरणास्तु प्रतियोग्यधिकरणयोः संसर्गमा- {{center|न्यायलीलावती प्रकाशविवृतिः}} गौरवादिति भावः । ध्वंसप्रागभावयोरिति । ध्वंसयोः प्रागभावयोश्चत्यर्थः । नाशोत्पत्तीति । नांशानुमानमुत्पश्यनुमानं च यथासंख्यमन्वयः । मूले च बहुवचनं द्वित्वाभिप्रायमेवेति भावः । {{gap}}तस्येति । नित्यत्वस्येत्यर्थः । अननुगमादिति । तथाचानुगतप्रतीत्या तस्यैकत्वसिद्धिरिति भावः । ननु संसर्गस्य न प्रतियोगितावच्छेदकत्वं सर्वत्र तथासति संसर्गों नेति सर्वत्र प्रत्ययांपत्तेरित्यरुचे- {{rule}}<noinclude></noinclude> 9v6ugnc188u6kwf6emjnfxjatma87fg पृष्ठम्:न्यायलीलावती.djvu/६५१ 104 134283 404703 358201 2024-11-13T11:23:02Z Swaminathan sitapathi 4227 /* शोधितम् */ 404703 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Swaminathan sitapathi" />{{rh|left=५७४|center='''न्यायलीलावती'''|right=}}</noinclude> {{gap}}ननु गवात्मनाऽश्वाभावोऽप्यत्यन्ताभाव एव, निरवधित्वात् । तदपार्थकं संसर्गप्रतियोगित्वम् । यथा एक एव ध्वंसो भावाभावनिषेधात्मा न भिद्यते तथात्रापि न्यायस्य तुल्यत्वात् । तत्कुतोऽभावस्य चातुर्विध्यमिति चेत् । न । अन्योन्याभावस्य निषेध्यसमानदेश कालत्वात् । तस्य तु तदभावात् । अर्धरक्ते समानदेशकालत्वं भावाभावयोरिति तस्यापि पञ्चमाभावत्वम् । अस्य वा वैधर्म्यस्याप्रयोजकत्वेऽभावत्रैविध्यमिति चेत् । न । {{rule|5em}} {{center|न्यायलीलावतीकण्ठाभरणम्}} {{gap}}अपार्थ कमिति । अव्यावर्तकमित्यर्थः । भावाभावेति । घटतत्प्रागभावनिषेधात्मा नेत्यर्थः । अत्रापीति । तादात्म्यनिषेधात्मा संसर्गनिषेधात्मा च एक एवाभाव इत्यर्थः । अन्योन्याभावस्येति । समानदेशत्वमात्रे वक्तव्ये समानकालत्वाभिधानं सम्पातायातम् । तस्य विति । अत्यन्ताभावस्येत्यर्थः । प्रतियोगिवृत्तिरभावोऽत्यन्ताभाव इति तु न लक्षणम् । नित्यत्वात्यन्ताभावाव्याप्तेः तस्य च तत्रावृत्तेः, नित्यत्वस्यापि नित्यत्वात् तदनित्यत्वे नित्यानामनित्यत्वापत्तेः । ननु संयोगात्यन्ताभावस्य नान्योन्याभावत्वं संसर्गप्रतियोगिकत्वात्, नात्यन्वाभावत्वं प्रतियोगिसमानदेशत्वात्, तथा चासौ पंचमो वा स्यादप्यन्योन्याभावात्यन्ता- {{center|न्यायलीलावतीप्रकाशः}} रोग्य यो निषेधः स संसर्गाभावः, घटसंसर्गः पटो नेत्यत्र तु संसर्गो नारोग्यते, किन्तु तादात्म्यमित्यनयोर्भेदः । {{gap}}पूर्वपक्ष्येवाह यथैक एवेति । यदा तु अन्ते चेदिति पाठस्तदा सुगम एव । संयोगाव्याप्यवृत्तित्वमाश्रित्याह अर्द्धरक्त इति । प्रतियोगिसमानदेशकालतया तस्यात्यन्ताभावत्वाभावात्, संसर्गप्रति- {{center|म्यायलीलावतीप्रकाशविवृतिः}} राह अस्मत्पितृचरणास्विति । प्रतियोग्यधिकरणसंसर्गविषयतया यस्यारोपत्वमित्यर्थः । तेन प्रतियोगिनमार्धकरणे समारोध्येत्यथ न लभ्यते अत एव चिन्तामणौ तथैवास्ति । तादृशारोपजन्य तावच्छेद कं च स्वाभावाभावत्वमेवेति दिक् । निषेधः निषेवप्रत्ययः स तद्विष-<noinclude></noinclude> drukptupppgzfd32pc3lo2qnzoltpnz