विकिस्रोतः
sawikisource
https://sa.wikisource.org/wiki/%E0%A4%AE%E0%A5%81%E0%A4%96%E0%A5%8D%E0%A4%AF%E0%A4%AA%E0%A5%83%E0%A4%B7%E0%A5%8D%E0%A4%A0%E0%A4%AE%E0%A5%8D
MediaWiki 1.44.0-wmf.6
first-letter
माध्यमम्
विशेषः
सम्भाषणम्
सदस्यः
सदस्यसम्भाषणम्
विकिस्रोतः
विकिस्रोतःसम्भाषणम्
सञ्चिका
सञ्चिकासम्भाषणम्
मीडियाविकि
मीडियाविकिसम्भाषणम्
फलकम्
फलकसम्भाषणम्
साहाय्यम्
साहाय्यसम्भाषणम्
वर्गः
वर्गसम्भाषणम्
प्रवेशद्वारम्
प्रवेशद्वारसम्भाषणम्
लेखकः
लेखकसम्भाषणम्
पृष्ठम्
पृष्ठसम्भाषणम्
अनुक्रमणिका
अनुक्रमणिकासम्भाषणम्
श्रव्यम्
श्रव्यसम्भाषणम्
TimedText
TimedText talk
पटलम्
पटलसम्भाषणम्
दर्पदलनम्/प्रथमो विचारः
0
12765
404850
37769
2024-12-04T04:53:53Z
49.205.145.108
404850
wikitext
text/x-wiki
'''[[दर्पदलनम्]]'''
प्रशान्ताशेषविघ्नाय दर्पसर्पापसर्पणात् ।

सत्यामृतनिधानाय स्वप्रकाशविकासिने ॥ १ ॥

संसारव्यतिरेकाय हृतोत्सेकाय चेतसः ।

प्रशमामृतसेकाय विवेकाय नमो नमः ॥ २ ॥ (युग्मम्)

क्षेमेन्द्रः सुहृदां प्रीत्या दर्पदोषचिकित्सकः ।

स्वास्थ्याय कुरुते यत्नं मधुरैः सूक्तिभेषजैः ॥ ३ ॥

कुलं वित्तं श्रुतं रूपं शौर्यं दानं तपस्तथा ।

प्राधान्येन मनुष्याणां सप्तैते मदहेतवः ॥ ४ ॥

अहंकाराभिभूतानां भूतानामिव देहिनाम् ।

हिताय दर्पदलनं क्रियते मोहशान्तये ॥ ५ ॥

कुलं कुलं कलयतां मोहान्मिथ्याभिमानिनाम् ।

लग्नः कोऽयं न जानीमः स्तब्धग्रीवाग्रहग्रहः ॥ ६ ॥

कुलस्य कमलस्येव मूलमन्विष्यते यदि ।

दोषपङ्कप्रस्तान्तस्तदावश्यं प्रकाशते ।। ७ ॥

यथा जात्यतुरंगस्य न शक्यज्जात्य(?)मुच्यते ।

तथा गुणवतः सूनुर्निर्गुणस्तत्कुलोद्भवः ॥ ८ ॥

एकश्चेत्पूर्वपुरुषः कुले यज्वा बहुश्रुतः ।

अपरः पापकृन्मूर्खः कुलं कस्यानुर्वर्तताम् ।। ९ ॥

लोके कुलं कुलं तावद्यावत्पूर्वसमन्वयः ।

गुणप्रभावे विच्छिन्ने समाप्तं सकलं कुलम् ॥ १० ॥

कुलाभिमानः कस्तेषां जघन्यस्थानजन्मनाम् ।

कुलकूलंकषा येषां जनन्यो निम्नगाः स्त्रियः ।। ११ ॥

कुलीनस्य कुलीनस्य नवदारिद्र्यलज्जया ।

किं कुलेनाकुलीनाग्रे याञ्चादैन्यप्रलापिनः ॥ १२ ॥

गुणवत्कुलजातोऽपि निर्गुणः केन पूज्यते ।

दोग्ध्रीकुलोद्भवा धेनुर्वन्ध्या कस्योपयुज्यते ॥ १३ ॥

स्वयं कुलकृतस्तस्माद्विचार्य त्यज्यतां मदः ।

गुणाधीनं कुलं ज्ञात्वा गुणेष्वाधीयतां मतिः ॥ १४ ॥

मूलान्वेषणचिन्त्यमानमनिशं नास्त्येव पुंसां कुलं

स्त्रीणां यत्र परम्परैव तनुते संतानतन्तुक्रमम् ।

एतासां कृतकप्रपञ्चरचनालज्जावतीनां पुरः

संसक्तस्मररूढगूढचरितं तत्त्वेन जानाति कः ॥ १५ ॥

कुलाभिमानाभरणस्य माता पितामही वा प्रपितामही वा ।

योषित्स्वभावेन यदि प्रदुष्टा तदेष दोषः कुलमूलघातः ॥ १६ ॥

सूर्यवंशे त्रिशङ्कुर्यश्चण्डालोऽभून्महीपतिः ।

दिलीपरघुरामाद्याः क्षितिपास्तत्कुलोद्भवाः ॥ १७ ॥

भूभुजां सोमवंश्यानां यः पूर्वपुरुषो बुधः ।

गुरुतल्पे स चन्द्रस्य जातो जगति विश्रुतः ॥ १८ ॥

कन्यायास्तनयः कर्णः क्षेत्रजाः पाण्डुनन्दनाः ।

सामान्यकुलचर्चाभिः किमन्याभिः प्रयोजनम् ॥ १९ ॥

मथुरायामभूत्पूर्वं ब्राह्मणः श्रीमतां वरः ।

यज्वा श्रुतनिधिर्नाम श्रुतिमान्विश्रुतश्रुतः ॥ २० ॥

तस्य मुक्तालता नाम प्रांशुवंशसमुद्भवा ।

बभूव वल्लभा पत्नी लावण्यललिताकृतिः ॥ २१ ॥

तस्यां तस्याभवत्कान्तः सुवृत्तः सगुणाग्रणीः ।

पुत्रस्तेजोनिधिर्नाम विद्याविमलदर्पणः ॥ २२ ॥

स धीमान्वेदविद्वादी कविः सर्वकलालयः ।

सभासु विदुषां चक्रे लज्जयावनतं शिरः ॥ २३ ॥

तं दर्पदोषज्वरितं ग्रीवास्तम्भयुतं रहः ।

प्रशमाय पिता स्नेहात्पथ्यं वक्तुं प्रचक्रमे ॥ २४ ॥

पुत्र मिथ्याभिमानेन किं प्रयातोऽसि मूढताम् ।

यन्मदद्विरदारूढः पूज्यपूजासु लज्जसे ॥ २५ ॥

नास्त्युपायः स संसारे दर्पश्वभ्रनिपातिनाम् ।

मूढानां क्रियते येन क्षनं हस्तावलम्बनम् ॥ २६ ॥

कष्टं केनोपदिष्टस्ते विनष्टविनयस्मृतेः ।

मदः साधुजनाविष्टः कुलविद्याधनोद्भवः ॥ २७ ॥

अस्थिरः कुलसंबन्धः सदा विद्याविवादिनी ।

मदो मोहाय मिथ्यैव मुहूर्तनिधनं धनम् ॥ २८ ॥

एतदेव कुलीनत्वमेतदेव गुणार्जनम् ।

यत्सदैव सतां सत्सु विनयावनतं शिरः ॥ २९ ॥

दयैव विदिता विद्या सत्यमेवाक्षयं धनम् ।

अकलङ्कविवेकानां शीलमेवामलं कुलम् ॥ ३० ॥

अभोगसुभगा भूतिरदैन्यधवलं कुलम् ।

अदर्पविशदा विद्या भवत्युन्नतचेतसाम् ॥ ३१ ॥

द्वेषः कस्य न दोषाय प्रीतिः कस्य न भूतये ।

दर्पः कस्य न पाताय नोन्नत्यै कस्य नम्रता ॥ ३२ ॥

त्यागिना किं दरिद्रेण किं कुलीनेन पापिना ।

तुष्टेन किं कदर्येण दर्पान्धेन बुधेन किम् ॥ ३३ ॥

वैरायते सुहृद्भावः प्रदानं हरणायते ।

दर्पभूताभिभूतस्य विद्या मौर्ख्यशतायते ॥ ३४ ॥

गुणिनां मत्सरः शत्रुर्लुब्धानामतियाचकः ।

सर्व एव सदर्पाणां न कश्चित्प्रियवादिनाम् ॥ ३५ ॥

तस्मात्कार्यस्त्वया पुत्र नाहंकारः कदाचन ।

दर्पोद्ग्रीवः किलोग्रेण मोहग्राहेण गृह्यते ॥ ३६ ॥

वंशेनोन्नतिशालिना गुणगणेनान्तश्चमत्कारिणा

रूपेणातिमनोहरेण महता वित्तेन वृत्तेन वा ।

रोहन्मोहमहातरुर्मदमयः संजायते यः सदा

तस्यादौ दृढरूढमूलदलने कार्योऽभियोगस्त्वया ॥ ३७ ॥

गुणेष्वनादरं पुत्र प्राप्तश्रीरपि मा कृथाः ।

संपूर्णोऽपि घटः कूपाद्गुणच्छिन्नः पतत्यधः ॥ ३८ ॥

कुलाभिमानं त्यज संवृत्ताग्रं धनाभिमानं त्यज दृष्टनष्टम् ।

विद्याभिमानं त्यज पण्यरूपं रूपाभिमानं त्यज काललेह्यम् ॥ ३९ ॥

पुत्र प्रयत्नेन विबोधितोऽसि न मुञ्चसि त्वं यदि दर्पमोहम् ।

तदेष ते यास्यति शल्यभावं तीव्राभितापप्रसवोऽभिमानः ॥ ४० ॥

विभूतिनलिनीगजः सुजनमानभङ्गशनि-

निपातपथदैशिकः सुकृतचित्रधूमोद्गमः ।

पराशयनवज्वरश्चरितचन्द्रबिम्बाम्बुदः

सदा समदचेतसां गुणविनाशहेतुर्मदः ॥ ४१ ॥

अनित्यतेयं यदि नित्यता स्यात्सर्वं न पाके विरसं यदि स्यात् ।

कुलार्थविद्यादिकृतोऽभिमानस्तदैष ते स्यान्न विडम्बनीयः ॥ ४२ ॥

अहं वादी विद्यापरिचयगुरुः सर्वविदुषा-

महं मानी वाणीप्रसरपरिपाकेन सुकविः ।

अहं लीलाहंसः कुवलयदृशां मानसचरः

करोत्यन्तः पुंसामिति मदपिशाचः परिचयम् ॥ ४३ ॥

लक्ष्मीः क्षणक्षयवती परिरक्षितापि

कायोऽप्यपायनिचयस्य निकाय एव

संभोगयोगसुखसंगतिरप्यतथ्या

मिथ्याभिमानकलनाघन एष शापः ॥ ४४ ॥

इत्युक्तोऽप्यसकृत्पित्रा लीलामीलितलोचनः ।

स ययौ मत्तहस्तीव वेगादगणिताङ्कुशः ॥ ४५ ॥

पादेन क्षितिमालिखन्ति समदाः कोपोष्णनिःश्वासिन-

स्तिर्यग्जिह्मनिरीक्षणैर्विदधति भ्रूभङ्गभीमं मुखम् ।

सस्वेदाङ्गुलिकन्दलीनिकषणैस्ताम्यल्ललाटत्वचः

कम्पन्ते हितमन्त्रवादसमये भूताभिभूता इव ॥ ४६ ॥

स कदाचिद्वराश्वेषु स्थितेषु जवकौतुकात् ।

प्रतस्थे खरमारुह्य वयस्यगृहमुत्सवे ॥ ४७ ॥

तेन तीक्ष्णप्रतोदेन चोद्यमानः पुनः पुनः ।

खरस्तीव्रव्यथार्तोऽभूत्प्रक्षरत्क्षतजोक्षितः ।। ४८ ॥

स्रुताक्षः कथितक्लेशः स्वस्वनोचितसंज्ञया ।

सोऽवदत्संमुखायातां गर्दभीं जननीं निजाम् ॥ ४९ ॥

मातर्ब्राह्मणपुत्रोऽयं पश्य मामधमाशयः ।

विदारयन्प्रतोदेन वहन्तं हन्तुमुद्यतः ॥ ५० ॥

किं करोमि यमेनाहं लब्धोऽनेन दुरात्मना ।

अवटे पातयाम्येनं तनुं श्वभ्रे क्षिपामि वा ॥ ५१ ॥

इत्यार्तराविणं पुत्रं साश्रुनेत्राथ गर्दभी ।

तमुवाच ससंतापं स्नेहसंक्रन्ततद्यथा ॥ ५२ ॥

वहैन्ं दुर्मदं पुत्र सहस्व विषमां व्यथाम् ।

अस्य नास्त्येव हृदये दारुणे करुणाकणः ।। ५३ ॥

रौद्रः शूद्रेण जातोऽयं ब्राह्मण्यां ब्रह्मवर्जितः ।

परदुःखं न जानाति चण्डं चण्डालचेष्टितः ॥ ५४ ॥

दयादरिद्रं हृदयं वचः क्रकचकर्कशम् ।

योनिसंकरजातानामेतत्प्रत्यक्षलक्षणम् ॥ ५५ ॥

नवनीतोपमा वाणी करुणाकोमलं मनः ।

एकबीजप्रजातानां भवत्यवनतं शिरः ॥ ५६ ॥

रटति कटुकाटोपं कोपादकारणवैरवा-

न्स्पृशति न दयां दैन्यापन्ने विजातितया शठः ।

क्षणरसिकतालोलः सेवाश्रितानवमन्यते

गुणिषु कुरुते गर्वोद्गारानखर्वगलः खलः ॥ ५७ ॥

इति दुःसहमाकर्ण्य गर्दभीवचनं द्विजः ।

सर्वप्राणिस्वनाभिज्ञः संमोहाभिहतोऽपतत् ॥ ५८ ॥

स लब्धसंज्ञः सुचिरान्मेरुशृङ्गादिव च्युतः ।

तत्याज सहसा दर्पं नष्टाखिलकुलोन्नतिः ॥ ५९ ॥

संमूर्च्छितो विषेणेव स गत्वा मातुरन्तिकम् ।

यथाश्रुतं निवेद्यास्यै सर्वं पप्रच्छ तां रहः ॥ ६० ॥

तनुत्यागप्रवृत्तेन पृष्टा सा तेन शापिता ।

अधोमुखी तमवदद्वैलक्ष्यलुलिताक्षरैः ॥ ६१ ॥

लज्जाकरमसत्कर्म कथं तत्कथयामि ते ।

संसारादपि साश्चर्यं गहनं स्त्रीविचेष्टितम् ॥ ६२ ॥

अपि कुञ्जरकर्णाग्रादपि पिप्पलपल्लवात् ।

अपि विद्युद्विलसिताद्विलोलं ललनामनः ॥ ६३ ॥

न बाध्यन्ते गुणैः पत्युर्न लक्ष्यन्ते परीक्षकैः ।

न धनेन निवार्यन्ते शीलत्यागोद्यताः स्त्रियः ॥ ६४ ॥

धनयौवनसंजातदर्पकालुष्यविप्लवाः ।

केनोन्नतपरिभ्रष्टा वार्यन्ते निम्नगाः स्त्रियः ॥ ६५ ॥

देहप्रदाः प्राणहरा नराणां भीरुस्वभावाः प्रविशन्ति वह्निम् ।

क्रूराः परं पल्लवपेशलाङ्ग्यो मुग्धा विदग्धानपि वञ्चयन्ति ॥ ६६ ॥

अहं पुर रजःस्नाता काले कुसुमुलाञ्छने ।

एकाकिनी पुष्पवने यौवनोन्मादिनी स्थिता ॥ ६७ ॥

व्रतदीक्षापरे पत्यौ सेर्ष्येव विनतानना ।

उन्नतस्तनविन्यस्तहस्ता चिरमचिन्तयम् ॥ ६८ ॥

एताः श्वसनसोत्कम्पाः सजृम्भाः षट्पदस्वनैः ।

सोत्कण्ठमिव गायन्ति लताः पुष्परजखलाः ॥ ६९ ॥

उद्भिन्नयौवनाक्रान्ता प्रियभोगवियोगिनी ।

व्रतशेषजुषः पत्युर्दोषेणैवास्मि निष्फला ॥ ७० ॥

इति चिन्ताक्षणे तस्मिंल्लग्नाभिमुखदर्पणः ।

नापितः परिहासाख्यः शीलशत्रुरिवाययौ ॥ ७१ ॥

स मामेकाकिनीं दृष्ट्वा नष्टसंवृत्तिकातराम् ।

पस्पर्शोत्कम्पिनीं पादनखग्रहणलीलया ॥ ७२ ॥

तत्राहं वृत्तकर्तव्या नीचसंगमलज्जया ।

अधोमुखी च्युतं शीलं वीक्षमाणेव मूर्च्छिता ॥ ७३ ॥

अविदूरे चरन्ती सा खरी सर्वं ददर्श तत् ।

गूढगर्भप्रदं चैतत्कर्म मे कुलपातकम् ॥ ७४ ॥

आस्तां किमनया पुत्र गुप्तवृत्तान्तचर्चया ।

संवृत्तान्येव शोभन्ते शरीराणि कुलानि च ॥ ७५ ॥

इति मातुर्वचः श्रुत्वा यातः स सहसान्धताम् ।

जातिमानावपतनान्निर्जीवित इवाभवत् ॥ ७६ ॥

अथ गत्वा निराहारः स कैलासाट्टाहासिनीम् ।

आशां ब्राह्मण्यबद्धाशश्चचार सुचिरं तपः ॥ ७७ ॥

तस्योग्रतपसा तुष्टः स्वयमेव शतक्रतुः ।

ब्राह्मण्यं याचमानस्य न ददौ दुर्लभं भुवि ॥ ७८ ॥

पुनः पुनः स तपसा संतापितजगत्त्रयः ।

सहस्राक्षवरात्प्राप देवत्वं न तु विप्रताम् ॥ ७९ ॥

छन्दोदेवाभिधानोऽथ सोऽभवद्भुवि विश्रुतः ।

प्रत्यब्दमेकदिवसे ह्यर्चनीयो मृगीदृशाम् ॥ ८० ॥

संमोहपातालविशालसर्पस्तस्मान्न कार्यः कुलजातिदर्पः ।

शमक्षमादानदयाश्रयाणां शीलं विशालं कुलमामनन्ति ॥ ८१ ॥

माता न यस्यास्त्यविवेकराशिः पुनर्भवाब्धिर्जनको न यस्य ।

यस्य प्रसक्ता दयिता न तृष्णा स एव लोके कुशली कुलीनः ॥ ८२ ॥

90gb256xde6e1nw2aydn6ru57p7v5kp
404851
404850
2024-12-04T05:12:40Z
49.205.145.108
404851
wikitext
text/x-wiki
'''[[दर्पदलनम्]]'''
प्रशान्ताशेषविघ्नाय दर्पसर्पापसर्पणात् ।

सत्यामृतनिधानाय स्वप्रकाशविकासिने ॥ १ ॥

संसारव्यतिरेकाय हृतोत्सेकाय चेतसः ।

प्रशमामृतसेकाय विवेकाय नमो नमः ॥ २ ॥ (युग्मम्)

क्षेमेन्द्रः सुहृदां प्रीत्या दर्पदोषचिकित्सकः ।

स्वास्थ्याय कुरुते यत्नं मधुरैः सूक्तिभेषजैः ॥ ३ ॥

कुलं वित्तं श्रुतं रूपं शौर्यं दानं तपस्तथा ।

प्राधान्येन मनुष्याणां सप्तैते मदहेतवः ॥ ४ ॥

अहंकाराभिभूतानां भूतानामिव देहिनाम् ।

हिताय दर्पदलनं क्रियते मोहशान्तये ॥ ५ ॥

कुलं कुलं कलयतां मोहान्मिथ्याभिमानिनाम् ।

लग्नः कोऽयं न जानीमः स्तब्धग्रीवाग्रहग्रहः ॥ ६ ॥

कुलस्य कमलस्येव मूलमन्विष्यते यदि ।

दोषपङ्कप्रस्तान्तस्तदावश्यं प्रकाशते ।। ७ ॥

यथा जात्यतुरंगस्य न शक्यज्जात्य(?)मुच्यते ।

तथा गुणवतः सूनुर्निर्गुणस्तत्कुलोद्भवः ॥ ८ ॥

एकश्चेत्पूर्वपुरुषः कुले यज्वा बहुश्रुतः ।

अपरः पापकृन्मूर्खः कुलं कस्यानुवर्तताम् ।। ९ ॥

लोके कुलं कुलं तावद्यावत्पूर्वसमन्वयः ।

गुणप्रभावे विच्छिन्ने समाप्तं सकलं कुलम् ॥ १० ॥

कुलाभिमानः कस्तेषां जघन्यस्थानजन्मनाम् ।

कुलकूलंकषा येषां जनन्यो निम्नगाः स्त्रियः ।। ११ ॥

कुलीनस्य कुलीनस्य नवदारिद्र्यलज्जया ।

किं कुलेनाकुलीनाग्रे याञ्चादैन्यप्रलापिनः ॥ १२ ॥

गुणवत्कुलजातोऽपि निर्गुणः केन पूज्यते ।

दोग्ध्रीकुलोद्भवा धेनुर्वन्ध्या कस्योपयुज्यते ॥ १३ ॥

स्वयं कुलकृतस्तस्माद्विचार्य त्यज्यतां मदः ।

गुणाधीनं कुलं ज्ञात्वा गुणेष्वाधीयतां मतिः ॥ १४ ॥

मूलान्वेषणचिन्त्यमानमनिशं नास्त्येव पुंसां कुलं

स्त्रीणां यत्र परम्परैव तनुते संतानतन्तुक्रमम् ।

एतासां कृतकप्रपञ्चरचनालज्जावतीनां पुरः

संसक्तस्मररूढगूढचरितं तत्त्वेन जानाति कः ॥ १५ ॥

कुलाभिमानाभरणस्य माता पितामही वा प्रपितामही वा ।

योषित्स्वभावेन यदि प्रदुष्टा तदेष दोषः कुलमूलघातः ॥ १६ ॥

सूर्यवंशे त्रिशङ्कुर्यश्चण्डालोऽभून्महीपतिः ।

दिलीपरघुरामाद्याः क्षितिपास्तत्कुलोद्भवाः ॥ १७ ॥

भूभुजां सोमवंश्यानां यः पूर्वपुरुषो बुधः ।

गुरुतल्पे स चन्द्रस्य जातो जगति विश्रुतः ॥ १८ ॥

कन्यायास्तनयः कर्णः क्षेत्रजाः पाण्डुनन्दनाः ।

सामान्यकुलचर्चाभिः किमन्याभिः प्रयोजनम् ॥ १९ ॥

मथुरायामभूत्पूर्वं ब्राह्मणः श्रीमतां वरः ।

यज्वा श्रुतनिधिर्नाम श्रुतिमान्विश्रुतश्रुतः ॥ २० ॥

तस्य मुक्तालता नाम प्रांशुवंशसमुद्भवा ।

बभूव वल्लभा पत्नी लावण्यललिताकृतिः ॥ २१ ॥

तस्यां तस्याभवत्कान्तः सुवृत्तः सगुणाग्रणीः ।

पुत्रस्तेजोनिधिर्नाम विद्याविमलदर्पणः ॥ २२ ॥

स धीमान्वेदविद्वादी कविः सर्वकलालयः ।

सभासु विदुषां चक्रे लज्जयावनतं शिरः ॥ २३ ॥

तं दर्पदोषज्वरितं ग्रीवास्तम्भयुतं रहः ।

प्रशमाय पिता स्नेहात्पथ्यं वक्तुं प्रचक्रमे ॥ २४ ॥

पुत्र मिथ्याभिमानेन किं प्रयातोऽसि मूढताम् ।

यन्मदद्विरदारूढः पूज्यपूजासु लज्जसे ॥ २५ ॥

नास्त्युपायः स संसारे दर्पश्वभ्रनिपातिनाम् ।

मूढानां क्रियते येन क्षनं हस्तावलम्बनम् ॥ २६ ॥

कष्टं केनोपदिष्टस्ते विनष्टविनयस्मृतेः ।

मदः साधुजनाविष्टः कुलविद्याधनोद्भवः ॥ २७ ॥

अस्थिरः कुलसंबन्धः सदा विद्याविवादिनी ।

मदो मोहाय मिथ्यैव मुहूर्तनिधनं धनम् ॥ २८ ॥

एतदेव कुलीनत्वमेतदेव गुणार्जनम् ।

यत्सदैव सतां सत्सु विनयावनतं शिरः ॥ २९ ॥

दयैव विदिता विद्या सत्यमेवाक्षयं धनम् ।

अकलङ्कविवेकानां शीलमेवामलं कुलम् ॥ ३० ॥

अभोगसुभगा भूतिरदैन्यधवलं कुलम् ।

अदर्पविशदा विद्या भवत्युन्नतचेतसाम् ॥ ३१ ॥

द्वेषः कस्य न दोषाय प्रीतिः कस्य न भूतये ।

दर्पः कस्य न पाताय नोन्नत्यै कस्य नम्रता ॥ ३२ ॥

त्यागिना किं दरिद्रेण किं कुलीनेन पापिना ।

तुष्टेन किं कदर्येण दर्पान्धेन बुधेन किम् ॥ ३३ ॥

वैरायते सुहृद्भावः प्रदानं हरणायते ।

दर्पभूताभिभूतस्य विद्या मौर्ख्यशतायते ॥ ३४ ॥

गुणिनां मत्सरः शत्रुर्लुब्धानामतियाचकः ।

सर्व एव सदर्पाणां न कश्चित्प्रियवादिनाम् ॥ ३५ ॥

तस्मात्कार्यस्त्वया पुत्र नाहंकारः कदाचन ।

दर्पोद्ग्रीवः किलोग्रेण मोहग्राहेण गृह्यते ॥ ३६ ॥

वंशेनोन्नतिशालिना गुणगणेनान्तश्चमत्कारिणा

रूपेणातिमनोहरेण महता वित्तेन वृत्तेन वा ।

रोहन्मोहमहातरुर्मदमयः संजायते यः सदा

तस्यादौ दृढरूढमूलदलने कार्योऽभियोगस्त्वया ॥ ३७ ॥

गुणेष्वनादरं पुत्र प्राप्तश्रीरपि मा कृथाः ।

संपूर्णोऽपि घटः कूपाद्गुणच्छिन्नः पतत्यधः ॥ ३८ ॥

कुलाभिमानं त्यज संवृत्ताग्रं धनाभिमानं त्यज दृष्टनष्टम् ।

विद्याभिमानं त्यज पण्यरूपं रूपाभिमानं त्यज काललेह्यम् ॥ ३९ ॥

पुत्र प्रयत्नेन विबोधितोऽसि न मुञ्चसि त्वं यदि दर्पमोहम् ।

तदेष ते यास्यति शल्यभावं तीव्राभितापप्रसवोऽभिमानः ॥ ४० ॥

विभूतिनलिनीगजः सुजनमानभङ्गशनि-

निपातपथदैशिकः सुकृतचित्रधूमोद्गमः ।

पराशयनवज्वरश्चरितचन्द्रबिम्बाम्बुदः

सदा समदचेतसां गुणविनाशहेतुर्मदः ॥ ४१ ॥

अनित्यतेयं यदि नित्यता स्यात्सर्वं न पाके विरसं यदि स्यात् ।

कुलार्थविद्यादिकृतोऽभिमानस्तदैष ते स्यान्न विडम्बनीयः ॥ ४२ ॥

अहं वादी विद्यापरिचयगुरुः सर्वविदुषा-

महं मानी वाणीप्रसरपरिपाकेन सुकविः ।

अहं लीलाहंसः कुवलयदृशां मानसचरः

करोत्यन्तः पुंसामिति मदपिशाचः परिचयम् ॥ ४३ ॥

लक्ष्मीः क्षणक्षयवती परिरक्षितापि

कायोऽप्यपायनिचयस्य निकाय एव

संभोगयोगसुखसंगतिरप्यतथ्या

मिथ्याभिमानकलनाघन एष शापः ॥ ४४ ॥

इत्युक्तोऽप्यसकृत्पित्रा लीलामीलितलोचनः ।

स ययौ मत्तहस्तीव वेगादगणिताङ्कुशः ॥ ४५ ॥

पादेन क्षितिमालिखन्ति समदाः कोपोष्णनिःश्वासिन-

स्तिर्यग्जिह्मनिरीक्षणैर्विदधति भ्रूभङ्गभीमं मुखम् ।

सस्वेदाङ्गुलिकन्दलीनिकषणैस्ताम्यल्ललाटत्वचः

कम्पन्ते हितमन्त्रवादसमये भूताभिभूता इव ॥ ४६ ॥

स कदाचिद्वराश्वेषु स्थितेषु जवकौतुकात् ।

प्रतस्थे खरमारुह्य वयस्यगृहमुत्सवे ॥ ४७ ॥

तेन तीक्ष्णप्रतोदेन चोद्यमानः पुनः पुनः ।

खरस्तीव्रव्यथार्तोऽभूत्प्रक्षरत्क्षतजोक्षितः ।। ४८ ॥

स्रुताक्षः कथितक्लेशः स्वस्वनोचितसंज्ञया ।

सोऽवदत्संमुखायातां गर्दभीं जननीं निजाम् ॥ ४९ ॥

मातर्ब्राह्मणपुत्रोऽयं पश्य मामधमाशयः ।

विदारयन्प्रतोदेन वहन्तं हन्तुमुद्यतः ॥ ५० ॥

किं करोमि यमेनाहं लब्धोऽनेन दुरात्मना ।

अवटे पातयाम्येनं तनुं श्वभ्रे क्षिपामि वा ॥ ५१ ॥

इत्यार्तराविणं पुत्रं साश्रुनेत्राथ गर्दभी ।

तमुवाच ससंतापं स्नेहसंक्रन्ततद्यथा ॥ ५२ ॥

वहैन्ं दुर्मदं पुत्र सहस्व विषमां व्यथाम् ।

अस्य नास्त्येव हृदये दारुणे करुणाकणः ।। ५३ ॥

रौद्रः शूद्रेण जातोऽयं ब्राह्मण्यां ब्रह्मवर्जितः ।

परदुःखं न जानाति चण्डं चण्डालचेष्टितः ॥ ५४ ॥

दयादरिद्रं हृदयं वचः क्रकचकर्कशम् ।

योनिसंकरजातानामेतत्प्रत्यक्षलक्षणम् ॥ ५५ ॥

नवनीतोपमा वाणी करुणाकोमलं मनः ।

एकबीजप्रजातानां भवत्यवनतं शिरः ॥ ५६ ॥

रटति कटुकाटोपं कोपादकारणवैरवा-

न्स्पृशति न दयां दैन्यापन्ने विजातितया शठः ।

क्षणरसिकतालोलः सेवाश्रितानवमन्यते

गुणिषु कुरुते गर्वोद्गारानखर्वगलः खलः ॥ ५७ ॥

इति दुःसहमाकर्ण्य गर्दभीवचनं द्विजः ।

सर्वप्राणिस्वनाभिज्ञः संमोहाभिहतोऽपतत् ॥ ५८ ॥

स लब्धसंज्ञः सुचिरान्मेरुशृङ्गादिव च्युतः ।

तत्याज सहसा दर्पं नष्टाखिलकुलोन्नतिः ॥ ५९ ॥

संमूर्च्छितो विषेणेव स गत्वा मातुरन्तिकम् ।

यथाश्रुतं निवेद्यास्यै सर्वं पप्रच्छ तां रहः ॥ ६० ॥

तनुत्यागप्रवृत्तेन पृष्टा सा तेन शापिता ।

अधोमुखी तमवदद्वैलक्ष्यलुलिताक्षरैः ॥ ६१ ॥

लज्जाकरमसत्कर्म कथं तत्कथयामि ते ।

संसारादपि साश्चर्यं गहनं स्त्रीविचेष्टितम् ॥ ६२ ॥

अपि कुञ्जरकर्णाग्रादपि पिप्पलपल्लवात् ।

अपि विद्युद्विलसिताद्विलोलं ललनामनः ॥ ६३ ॥

न बाध्यन्ते गुणैः पत्युर्न लक्ष्यन्ते परीक्षकैः ।

न धनेन निवार्यन्ते शीलत्यागोद्यताः स्त्रियः ॥ ६४ ॥

धनयौवनसंजातदर्पकालुष्यविप्लवाः ।

केनोन्नतपरिभ्रष्टा वार्यन्ते निम्नगाः स्त्रियः ॥ ६५ ॥

देहप्रदाः प्राणहरा नराणां भीरुस्वभावाः प्रविशन्ति वह्निम् ।

क्रूराः परं पल्लवपेशलाङ्ग्यो मुग्धा विदग्धानपि वञ्चयन्ति ॥ ६६ ॥

अहं पुर रजःस्नाता काले कुसुमुलाञ्छने ।

एकाकिनी पुष्पवने यौवनोन्मादिनी स्थिता ॥ ६७ ॥

व्रतदीक्षापरे पत्यौ सेर्ष्येव विनतानना ।

उन्नतस्तनविन्यस्तहस्ता चिरमचिन्तयम् ॥ ६८ ॥

एताः श्वसनसोत्कम्पाः सजृम्भाः षट्पदस्वनैः ।

सोत्कण्ठमिव गायन्ति लताः पुष्परजखलाः ॥ ६९ ॥

उद्भिन्नयौवनाक्रान्ता प्रियभोगवियोगिनी ।

व्रतशेषजुषः पत्युर्दोषेणैवास्मि निष्फला ॥ ७० ॥

इति चिन्ताक्षणे तस्मिंल्लग्नाभिमुखदर्पणः ।

नापितः परिहासाख्यः शीलशत्रुरिवाययौ ॥ ७१ ॥

स मामेकाकिनीं दृष्ट्वा नष्टसंवृत्तिकातराम् ।

पस्पर्शोत्कम्पिनीं पादनखग्रहणलीलया ॥ ७२ ॥

तत्राहं वृत्तकर्तव्या नीचसंगमलज्जया ।

अधोमुखी च्युतं शीलं वीक्षमाणेव मूर्च्छिता ॥ ७३ ॥

अविदूरे चरन्ती सा खरी सर्वं ददर्श तत् ।

गूढगर्भप्रदं चैतत्कर्म मे कुलपातकम् ॥ ७४ ॥

आस्तां किमनया पुत्र गुप्तवृत्तान्तचर्चया ।

संवृत्तान्येव शोभन्ते शरीराणि कुलानि च ॥ ७५ ॥

इति मातुर्वचः श्रुत्वा यातः स सहसान्धताम् ।

जातिमानावपतनान्निर्जीवित इवाभवत् ॥ ७६ ॥

अथ गत्वा निराहारः स कैलासाट्टाहासिनीम् ।

आशां ब्राह्मण्यबद्धाशश्चचार सुचिरं तपः ॥ ७७ ॥

तस्योग्रतपसा तुष्टः स्वयमेव शतक्रतुः ।

ब्राह्मण्यं याचमानस्य न ददौ दुर्लभं भुवि ॥ ७८ ॥

पुनः पुनः स तपसा संतापितजगत्त्रयः ।

सहस्राक्षवरात्प्राप देवत्वं न तु विप्रताम् ॥ ७९ ॥

छन्दोदेवाभिधानोऽथ सोऽभवद्भुवि विश्रुतः ।

प्रत्यब्दमेकदिवसे ह्यर्चनीयो मृगीदृशाम् ॥ ८० ॥

संमोहपातालविशालसर्पस्तस्मान्न कार्यः कुलजातिदर्पः ।

शमक्षमादानदयाश्रयाणां शीलं विशालं कुलमामनन्ति ॥ ८१ ॥

माता न यस्यास्त्यविवेकराशिः पुनर्भवाब्धिर्जनको न यस्य ।

यस्य प्रसक्ता दयिता न तृष्णा स एव लोके कुशली कुलीनः ॥ ८२ ॥

3gyawfrb2r8bxsljhduv81lu4es2txo
पृष्ठम्:हितोपदेशः.djvu/७२
104
85244
404849
205319
2024-12-03T14:17:03Z
Geeta g hegde
6704
404849
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Manjunath Ka Ho" />{{rh|left={{bold|(७२)}}|right={{bold|[ हितोपदेशे-}}}}</noinclude>
{{Block center|<poem>बुद्धिर्यस्य बलं तस्य निर्बुद्धेस्तु कुतो बलम् ।
पश्य सिंहो मदोन्मत्तः शशकेन निपातितः ॥ ११९॥</poem>}}
वायसी विहस्याह-‘कथमेतत् १' । वायस कथयति-
{{center|<poem>{{bold|कथा ८,}}</poem>}}
{{gap}}अस्ति कन्दरनाम्नि पर्वते दुर्दान्तो नाम सिंहः । स च सर्वदा पशूना
वधं कुर्वनास्ते । तत सर्वै. पशुभिर्मिलित्वा स सिहो विज्ञप्त -‘मृगेन्द्र । किमर्थ-
मेकदा बहुपशुधात क्रियते १ यदि प्रसादो भवति तदा वयमेव भवदाहाराय
प्रत्यहमेकैक पशुमुपढौकयाम.।' तत सिहेनोक्तम्-' यद्येतदभिमत भवता तर्हि
भवतु तत् ।' तत.प्रभृत्येकैक पशुमुपकल्पित भक्षयनास्ते । अथ कदाचिद्वृद्ध
शशकस्य वार समायात । सोऽचिन्तयत् -
{{Block center|<poem>• त्रासहेतोर्विनीतिस्तु क्रियते जीविताशया।
पञ्चत्वं चेद्गमिष्यामि किं सिंहानुनयेन मे ॥ १२० ॥</poem>}}
{{gap}}तन्मन्दमन्द गच्छामि ।' तत सिहोपि क्षुवापीडित कोपात्तमुवाच-‘कुतस्त्व
विलम्ब्य समागतोसि ?' शशकोऽब्रवीतु- देव । नामपरावी । आगच्छन्पथि
सिहान्तरेण बलाद्धृत , तस्याग्रे पुनरागमनाय शपथ कृत्वा स्वामिन निवेदयि-
तुमत्रागतोऽस्मि ।' सिह सकोपमाह-सत्वर गत्वा दुरात्मान दर्शय, क स
दुरान्मा तिष्ठति १' ततः शशकस्त गृहीत्वा गभीरकूप दर्शयितु गत । * तत्रा-
गत्य स्वयमेव पश्यतु स्वामी' इत्युक्त्वा तस्मिन्कूपजले तस्य सिहस्यैव प्रतिबिम्ब
दर्शितवान् । ततोऽसौ क्रोधामातो दर्पोत्तम्योपर्यात्मान नि क्षिग्य पञ्चत्व गतः ।
अतोऽह ब्रवीमि--‘बुद्धिर्यस्य बलम्' इत्यादि ।
{{gap}} वायस्याह- श्रुत मया सर्वम्, संप्रति यथा कर्तव्य तद्रूहि ।' वायसो-
ऽवदत् - प्रिये ! अत्रासने सरसि राजपुत्र प्रत्यहमागत्य स्वाति । स्नानसमये
तदङ्गादवतारित तीर्थशिलानिहित कनकसूत्र चञ्न्वा विवृत्यानीयास्मिन्कोटरे
धारयिष्यसि ।' अथ कदाचित्कनकसूत्र दृषदि सस्थाप्य स्नातुं जल प्रविष्टे
राजपुत्रे वायस्या तदनुष्ठितम् । अथ कनकसूत्रानुसरणप्रवृत्तै राजपुरुषैस्तत्र तरु-
कोटरे निरूप्यमाण कृष्णसर्पो दृष्टो व्यापादितश्च । अतोऽहं ब्रवीमि- उपायेन
हि यच्छक्यम् ' इत्यादि ।<noinclude></noinclude>
i8sft2vlafyj884yx45ngcckc71925d
पृष्ठम्:हितोपदेशः.djvu/७३
104
85245
404863
205320
2024-12-04T11:45:03Z
Geeta g hegde
6704
404863
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Manjunath Ka Ho" />{{rh|left=सुहृद्भेदः. ]|center=|right=७३}}</noinclude>
{{gap}}करटको ब्रूते-* यद्येव तर्हि गच्छ । शिवास्ते सन्तु पन्थानः ।' ततो दमनकः
पिङ्गलकसमीप गत्वा प्रणम्योवाच- देव ! आत्ययिक किमपि महाभयकार
कार्यं मन्यमान समागतोऽस्मि । यत -
{{Block center|<poem>आपद्युन्मार्गगमने कार्यकालात्ययेषु च ।
कल्याणवचनं ब्रूयादपृष्टोऽपि हितो नरः॥ १२१ ॥</poem>}}
अन्नाच-
{{Block center|<poem>भोगस्य भाजनं राजा मन्त्री कार्यस्य भाजनम् ।
राजकार्यपरिध्वंसी मन्त्री दोषेण लिप्यते ॥ १२२ ॥</poem>}}
तथा हि पश्य । अमात्यानामेष क्रमः-
{{Block center|<poem>वरं प्राणपरित्यागः शिरसो वापि कर्तनम् ।
न तु स्वामिपदावाप्तिपातकेच्छोरुपेक्षणम् ॥ १२३ ॥</poem>}}
{{gap}}पिङ्गलक सादरमाह- * अथ भवान्कि वतुमिच्छति १ ' दमनको ब्रूते-“देव!
सजीवकस्तवोपर्यसदृशव्यवहारीव लक्ष्यते । तथा चास्मत्सन्निवाने श्रीमद्देवपादानां
शक्तित्रयनिन्दा कृत्वा राज्यमेवााभलषति । एतच्छत्वा पिगलक सभय साश्चय
मत्वा तूष्णीं स्थित । दमनक. पुनराह-‘देव ! सर्वामात्यपरित्याग कृत्वैक एवार्य
यत्वया सर्वाधिकारी कृत स एव महान् दोष । यत -
{{Block center|<poem>अत्युच्छूिते मन्त्रिणि पार्थिवे च
विष्टभ्य पादावुपतिष्ठते श्रीः ।
सा स्त्रीस्वभावादसहाभरस्य
तयोर्द्वयोरेकतरं जहाति ॥ १२४ ॥</poem>}}
अन्यच्च-
{{Block center|<poem>एकं भूमिपतिः करोति सचिव राज्ये प्रमाणं यदा
तं मोहाच्यते मदः स च मदालस्येन निर्भिद्यते ।
निर्भन्नस्य पदं करोति हृदये तस्य स्वतन्त्रस्पृहा
स्वातन्त्र्यस्पृहया ततः स नृपतेः प्राणान्तिकं दुह्यात॥२५६॥</poem>}}<noinclude></noinclude>
aqnl1h56ik1lb88wsq77mso0fvp2n7l
पृष्ठम्:भारतानुवर्णनम्.djvu/५९
104
127078
404853
404844
2024-12-04T05:44:33Z
Shubha
190
/* शोधितम् */
404853
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shubha" />{{center|४४}}</noinclude>
जनानाम् उत्पीडाद् भोग्यविशेषेष्वभिलाषाच्च तं देशं
विहाय तत इतो गणशः प्रतस्थिरे ।
{{gap}}तेषु दक्षिणतः पारसीकान् अभि प्रस्थितेषु
गणेषु कतिपये भारतं प्रविश्य सिन्धुनदस्य पश्चिमं
तीरं प्रापुः ।
{{center|अर्याणां पञ्चनदवासः.}}
{{gap}}अथ ते सिन्धुम् उत्तीर्य तं वितस्तां चन्द्रभागाम् इरावतीं विपाशां शुतुद्रिं च नदीम् अन्तरास्थिताः <ref> 'एषास्या युजाना परकात् पञ्च क्षितीः परि सद्यो जिगाति ' (ऋग्वे. अष्ट. ५. अ. ५. व. २२.)</ref>पञ्च क्षितीः पञ्चनदशब्दिता वशे चक्रुः । तत्र
ते नवनवान् ग्रामान् नगराणि कृष्याणि च स्थलानि निरवर्तयन् ।
{{gap}}पञ्चसु क्षितिषु वासात् कृषिकर्मणोपजीवनाच्च ते <ref>यस्येक्ष्वाकुरुपव्रते रेवान् मराय्येधते दिवीव पञ्च कृष्टयः' (ऋग्वे. अष्ट. ८. अ. १. व. २४.)</ref>पञ्च कृष्टयः सम्पन्नाः । कृष्टय इति कर्षका उच्यन्ते । ते हि गणाः कृषिकर्मणि निपुणा आसन् । तत
एव तेषाम् आर्या इत्यपि नाम प्रतीतम् ।
{{rule}}<noinclude></noinclude>
aw4t88ajwwizdt7wmpeanfyulthnavk
पृष्ठम्:भारतानुवर्णनम्.djvu/६०
104
127079
404854
344995
2024-12-04T06:33:16Z
Shubha
190
/* शोधितम् */
404854
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shubha" />{{center|४५}}</noinclude>
{{center|भारते वसन्तः सर्वे हिन्दवस्तेषामेव सन्तानाः ॥}}
{{center|आर्याणां भारताक्रमणम् .}}
{{gap}}अथार्याः सहजाद् व्यवसायाद् ब्रह्मावर्तं ब्रह्मर्षिदेशं <ref>हिमवद्विन्ध्ययोर्मध्यं यत् प्राग्विनशनादपि । प्रत्यगेव प्रयागाञ्च
मध्यदेशः स कीर्तितः ॥' (मनुः ) विनशनम् = the place where the river Sarasvati is lost in the sand.</ref>मध्यदेशं चाक्रम्य क्रमेण विन्ध्यान्तस्य भारतस्य स्वामिनोऽभवन् । गच्छति काले दक्षिणापथं
लङ्कां च तेषां प्रतापः प्रविवेश | अस्य भारताक्रमणस्याद्यन्तकालं <ref>षट्शताधिकं सहस्रम्.</ref>१६०० वर्षाणि वदन्ति ।
{{center|प्राञ्चो भारताभिजनाः}}
{{gap}}प्राग् आर्याणां प्रवेशात् पञ्चनदादिषु देशेषु जनवर्गा उभये प्रतिवसन्ति स्म ।
{{gap}}तेष्वेके मृगप्राया 'म्लेच्छा' 'राक्षसा' इति च शब्दिताः । प्रतीकारे यत्नवन्तोऽप्येते प्रबलैरार्यैः
परिभूता बभूवुः । आर्यैर्जिताज्जिताच्च देशाद् अपसृत्य ते गिरीन् वनानि च प्रतिपेदिरे ।
{{rule}}<noinclude></noinclude>
53b1wm3z3vcxc7ehyp0gu9mcgqi62g8
पृष्ठम्:न्यायलीलावती.djvu/६८७
104
134319
404855
358238
2024-12-04T06:36:51Z
Swaminathan sitapathi
4227
/* शोधितम् */
404855
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Swaminathan sitapathi" />{{rh|left=६०८|center='''न्यायलीलावती'''|right=}}</noinclude>
प्रवृत्तविपरीत परिच्छेदस्यैव वाधस्य सञ्यभिचारत्वात् । स च
व्यभिचारो बहिरन्तक्ष्चेति व्यभिचारदेहान्तर्भूतत्वात् । प्रतिरोधे
च प्रतिरोध्यनियमग्राहकमत्यक्षबोधस्य सत्त्वे तस्यानुद्भावनात् ।
{{rule|5em}}
{{center|न्यायलीलावतीकण्ठाभरण}}म्
तथाच बाधे पक्षे एव व्यभिचारान्न हेत्वमासान्तरत्वम् । ननु नहि न
पक्षे पक्षसमे वा व्यभिचार इत्यत आह सचेति । दोषे सति नेयं परिभा-
{{center|न्यायलीलावती प्रकाशः}}
तु न तथेत्याशयेनाह स चेति । पक्षानिरिक्त्तत्वस्य गौरवकरत्वादित्यर्थः । नच बाधोत्तरमनैकान्ति करवा पक्षधर्मत्वयोऽदूषकत्वादुपजीव्यत्वाद्वाघः पृथक्, उपजीव्यत्वं हि न तावत्तमवगम्यैवावगमः, बाधमनवगम्यापि शब्दादनुमानाद्वा अनैकान्तिकत्वस्य सुग्रहत्वात् । वस्तुत एकत्र धर्मिणि हेतुसाध्याभावाविति समूहालम्बनैकैव प्रतीतिर्हेतुसाध्याभावयोः सामानाधिकरण्योल्लेखिनी, अन्यथा साध्याभावप्रमायां यदि हेतोरज्ञानं तर्ह्यसिद्धिरेव स्यादित्ये कवित्तिवेद्यत्वं तयोरिति नोपजीव्यत्वम् । नापि बाधमुद्भाव्यैवोद्भावनम् असिद्धेः, नहीदमनैकान्तिकमित्युक्ते, कथमिति परानुयोग आवश्यको, येनावश्यकोद्भाव्यता स्यात्, तथात्वेप्युजीवक्रमेव दूषणमस्तु क्लृप्तत्वात, अतएवावश्योद्भाव्यत्वं तदिति परास्तम् । अथार्थान्तरोपनायकस्मृ-
{{center|न्यायलीलावतीप्रकाशविवृतिः}}
तत्र नानुमितिरिति परीहारार्थः । शब्दादनुमानाद्वेति । एतच्च प्रत्यक्षरूपमेव ज्ञानं नोपजीव्यमिति प्रतिपादनाथ । ज्ञानान्तरसावारण्येनोपजीव्यत्वनिगसायाह वस्तुत इति । नहीदमनैकान्तिकमिति। यद्यपि बाधोद्भावनानन्तरमेव व्यभिचारोद्भावनमिति शङ्कायां व्यभिचारोद्भावनानन्तरं न बाघोद्भावनमिति परिहारो व्यधिकरणस्तथाप्युद्भावयितुर्विम
र्षशरीरमेतत् तथा च व्यभिचारे उद्भाविते कथमिति यदि परकथं
तावश्यं तदा प्रथमं बाघ एवोद्भाव्यतामावक्ष्यकत्वादित्यालोचयतां
प्रथमं बाघोद्भावननियमः स्यान्न त्वेतदस्तीति नाशङ्कितो नियम
इति भावः । यद्वा बाघोद्भावनपूर्वतानियतं न व्यभिचारोद्भावनमित्येवाशङ्काफक्किकार्थ इति यथाक्ष्रुतैव परिहारफक्किका । अत एवेति ।
पूर्वोत्तरसाधारण्येनेति शेषः । रत्नकोशकुन्मतमाशङ्केते अथेति । एत-<noinclude></noinclude>
3pkz3aqe3ojqwae06xvajob56ro4iw6
404856
404855
2024-12-04T06:37:45Z
Swaminathan sitapathi
4227
404856
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Swaminathan sitapathi" />{{rh|left=६०८|center='''न्यायलीलावती'''|right=}}</noinclude>
प्रवृत्तविपरीत परिच्छेदस्यैव वाधस्य सञ्यभिचारत्वात् । स च
व्यभिचारो बहिरन्तक्ष्चेति व्यभिचारदेहान्तर्भूतत्वात् । प्रतिरोधे
च प्रतिरोध्यनियमग्राहकमत्यक्षबोधस्य सत्त्वे तस्यानुद्भावनात् ।
{{rule|5em}}
{{center|न्यायलीलावतीकण्ठाभरण}}
तथाच बाधे पक्षे एव व्यभिचारान्न हेत्वमासान्तरत्वम् । ननु नहि न
पक्षे पक्षसमे वा व्यभिचार इत्यत आह सचेति । दोषे सति नेयं परिभा-
{{center|न्यायलीलावती प्रकाशः}}
तु न तथेत्याशयेनाह स चेति । पक्षानिरिक्त्तत्वस्य गौरवकरत्वादित्यर्थः । नच बाधोत्तरमनैकान्ति करवा पक्षधर्मत्वयोऽदूषकत्वादुपजीव्यत्वाद्वाघः पृथक्, उपजीव्यत्वं हि न तावत्तमवगम्यैवावगमः, बाधमनवगम्यापि शब्दादनुमानाद्वा अनैकान्तिकत्वस्य सुग्रहत्वात् । वस्तुत एकत्र धर्मिणि हेतुसाध्याभावाविति समूहालम्बनैकैव प्रतीतिर्हेतुसाध्याभावयोः सामानाधिकरण्योल्लेखिनी, अन्यथा साध्याभावप्रमायां यदि हेतोरज्ञानं तर्ह्यसिद्धिरेव स्यादित्ये कवित्तिवेद्यत्वं तयोरिति नोपजीव्यत्वम् । नापि बाधमुद्भाव्यैवोद्भावनम् असिद्धेः, नहीदमनैकान्तिकमित्युक्ते, कथमिति परानुयोग आवश्यको, येनावश्यकोद्भाव्यता स्यात्, तथात्वेप्युजीवक्रमेव दूषणमस्तु क्लृप्तत्वात, अतएवावश्योद्भाव्यत्वं तदिति परास्तम् । अथार्थान्तरोपनायकस्मृ-
{{center|न्यायलीलावतीप्रकाशविवृतिः}}
तत्र नानुमितिरिति परीहारार्थः । शब्दादनुमानाद्वेति । एतच्च प्रत्यक्षरूपमेव ज्ञानं नोपजीव्यमिति प्रतिपादनाथ । ज्ञानान्तरसावारण्येनोपजीव्यत्वनिगसायाह वस्तुत इति । नहीदमनैकान्तिकमिति। यद्यपि बाधोद्भावनानन्तरमेव व्यभिचारोद्भावनमिति शङ्कायां व्यभिचारोद्भावनानन्तरं न बाघोद्भावनमिति परिहारो व्यधिकरणस्तथाप्युद्भावयितुर्विम
र्षशरीरमेतत् तथा च व्यभिचारे उद्भाविते कथमिति यदि परकथं
तावश्यं तदा प्रथमं बाघ एवोद्भाव्यतामावक्ष्यकत्वादित्यालोचयतां
प्रथमं बाघोद्भावननियमः स्यान्न त्वेतदस्तीति नाशङ्कितो नियम
इति भावः । यद्वा बाघोद्भावनपूर्वतानियतं न व्यभिचारोद्भावनमित्येवाशङ्काफक्किकार्थ इति यथाक्ष्रुतैव परिहारफक्किका । अत एवेति ।
पूर्वोत्तरसाधारण्येनेति शेषः । रत्नकोशकुन्मतमाशङ्केते अथेति । एत-<noinclude></noinclude>
f3f25tq7dg94f8owdlpb5a7ex0esor5
पृष्ठम्:न्यायलीलावती.djvu/६८८
104
134320
404857
358239
2024-12-04T07:38:30Z
Swaminathan sitapathi
4227
/* शोधितम् */
404857
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Swaminathan sitapathi" />{{rh|left=|center='''ज्यायलीलावतीकण्ठाभरण- सविवृतिप्रकाचोद्भासिता '''|right=६०९}}</noinclude>
{{center|न्यायलीलावतकिण्ठाभरणम्}}
षेत्यर्थः । ननु पक्षे साध्याभावमा बाधन्त
दुत्तरञ्च प्रमितसाध्याभाव-
वद्भालितया हेतोरनैकान्तिकत्वं ग्राह्यमेव न पक्षधर्मतापि तदुपजीव्येति बाधः पृथगेवेति चेत् । न । उपजीव्यत्वेऽपि क्लृप्त्वादुपजीवकस्यैव हेत्वाभावात् । ननु संस्कारवशतः काञ्चनमयत्वं व यत्र वह्रौ भासते तत्र काञ्चनमयवह्निमानयमित्यनुमितिरवश्यमाभासेति
हेत्वाभासान्तरलखे बाध एव हेत्वाभास इति चेन्न । विप्रतिपत्तिविषयेण साध्येनैव हे वाभास निरूपणात् । सदर्थविशिष्टञ्च विप्रतिपत्तिविषयः, अन्यथा सर्वप्रमाऽनाश्वासप्रलङ्गः, असदर्थ एव संस्कारवशादत्र भात इति शङ्काया: सुलभत्वात् । ननु महानलीयो वह्निः
पर्वते बाधादेव न भास्यत इति चेन्न । पर्वतीयधूमेन तस्य व्याप्तेरभावात् । ननु गन्ध प्रागभावावच्छिन्नपृथिवी पक्षवती गन्धवती पृथिवीत्वादत्र बाधात्साध्यासिद्धिति चेत् । न । गन्धकृताभावस्य
विशेषणत्वे स्वरूपासिद्धिः, उपलक्षणत्वे साध्यसिद्धिसम्भावनायां कबाघोऽपीति विशेषात् । तत्रापि वा व्यभिचार एव, पक्ष एव तद्विशेषणविशिष्टसाध्यात्यन्ताभावसामानाधिकरण्यात् । किञ्च बाधस्य सकलप्रमाण दोषत्वेऽनुमित्यसाधारणदोषत्वाभावात् अहेत्वाभासत्वादिति दिक् । प्रतिरोध्यं यत्प्रमानुमानं तन्निय मग्राहकेण प्रत्यक्षेण साध्यस्य सखे तस्य सत्प्रतिपक्षस्थानुद्भावनात् । नहि बाधितेन सत्प्रति-
{{center|न्यायलीलावतीप्रकाशः}}
त्यादिसहकारिता सामान्यत एव प्रत्यभिशादौ क्लृप्ता, तदिह सद्याप्तिपक्षघर्मताकलिङ्गपरामर्षस्या सदर्थकाञ्चनमयत्वादिस्मृति सहकारिवशाद्यत्राभासघीकारणत्वं तत्राभासः पृथक् । मैवम् । व्यातिपक्षधर्मतोपनीताइन्यस्य व्याप्तौ भाने मानाभावात्, प्रत्यभिज्ञादौ प्रत्यभिज्ञाप्रमाणबलेन तत्कल्पनात्, अन्यथा पूर्वानुभूतसकलार्थजानेऽनुमितेर्याथार्थ्याच्छेदापत्तेः । अथ प्रत्यक्षादौ प्रमामात्रं प्रति स्वातन्त्र्येण
बाघस्य दोषत्वेन क्लृप्तत्वादनुमितावपि स एव दोषः । मैवम् । त-
{{center|न्यायलीलावतीप्रकाशविवृतिः}}
न्मते चानुमित्याभासताप्रयोजकत्वमेव हेत्वाभासत्वमिति ध्येयम् ।
याथार्थ्योदापत्तीरति । इदं चापाततो ज्ञानस्य प्रत्यक्षत्वेऽपि न विषयतानियामकत्वं तत्वेन, किन्तु सन्निकर्षत्वेनानुमितौ न सन्निक-<noinclude></noinclude>
ayd1vpqpfqf68hcce05se5puamqs3bm
पृष्ठम्:न्यायलीलावती.djvu/६८९
104
134321
404858
358240
2024-12-04T09:34:19Z
Swaminathan sitapathi
4227
/* शोधितम् */
404858
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Swaminathan sitapathi" />{{rh|left=६२० |center=न्यायलीलावती|right=}}</noinclude>
न्यायलीलावतीप्रकाशः
{{center|}}
थासति बाधस्य हेत्वाभासत्वव्याघातात्, अनुमित्यसाधारणदोषस्यैव हेत्वाभासत्वात् । अथ पक्षाभिमते साध्याभावग्रहवत् साध्याभावव्याप्यग्रहोऽपि दूषकः विरोधित्वाविशेषात्, एवञ्च साध्याभावसामानाधिकरण्यमनैकान्तिकत्वम्, लाध्याभावव्याप्यसामानाधिकरण्यं च बाधः, साध्याभावव्याप्यं च वह्नित्वाद्येव । मैवम् । पक्षत्वाभिमते साध्याभावग्रहस्यैव दूषकत्वासिद्धौ तद्द्दष्टान्तत्वानुपपत्तः, सिद्धौ वा तस्योक्तरूपबाधाऽनन्तर्भावे षष्ठहत्वाभासत्वापत्तेः ।
उक्तरूपश्च बाधः पक्षाभिमतांवषयकसाभ्याभावबुद्धौ सत्यामसत्यां
वा ? आद्येऽनैकान्तिकमेव, साध्याभावसामानाधिकरण्यग्रहात् । अन्त्ये लिङ्गत्वाभिमत साध्याभावव्याप्ययोर गृह्यमाणविशेषतया सत्प्रतिपक्ष एच दूषणं, न बाधः । न च तुल्यबलत्वं तन्त्रम्, गमकताप्रयोजकरूपसम्पत्तेरेव बलत्वेन तस्य द्वयोरपि ज्ञानत्वात् । प्रतिरोध्येति ।
प्रतिरोध्यं स्थापनानुमानं तस्य व्याप्तिग्राहकं यत्प्रमाणं तस्य प्रत्यक्षेण द्वितीयानुमानमूलव्याप्तिग्राहकेन बाधः, तत्सत्त्वे तस्यानुद्भा
वनात् - प्रतिरोधानुद्भावनात, अन्यथा हनिबलतया सत्प्रतिपक्षत्वानुपपत्तेरिस्यर्थः । ननु द्वितीयानुमानमूलव्याप्तिग्राहकं यत्प्रत्यक्ष
तद्विरोधि प्रथमानुमानमूलव्याप्तिग्राहकं प्रत्यक्षान्त रमस्ति, <ref>अत्र तथात्वेपीति विवृतिकारसम्मतपाठो युक्तः ।</ref>तथाच
{{center|न्यायलीलावतीप्रकाशविवृतिः}}
र्षस्य विषयतानियामकत्वं किन्तु व्याप्तिपक्षधर्मत योरिति नोपनीतस्य
विषयत्वमिति सारम् । अनुमित्यलाधारणत्वादिति ध्वनितम् । वस्तुतः प्रत्यक्षे ग्राह्याभावप्रत्यक्षत्वेन प्रतिबन्धकता शब्दस्तु मानान्तरं न भवत्येवेति ग्राह्याभावज्ञानत्वेनानुमितावेव प्रतिबन्धकत्वं वाच्यं, तच्च न व्यभिचारसांकर्यादिति रहस्यम् । षष्ठेति | हेत्वाभासपञ्चत्ववादिन इति शेषः । सत्प्रतिपक्ष एवेति । त्वन्मत इति शेषः । ननु
परस्परव्याप्तिग्राहकप्रामाण्यासिद्धिर्न स्वतो दूषिका विरोध्यविषयत्वात्, न चान्यतरव्याप्त्यनिश्चय एव दोषस्तत्रापि ग्राहकप्रमाणस्य सत्प्रतिपक्षतयोपजीव्यत्वादित्यरुचेराह तथात्वेरीति | दुषकत्वेऽपीत्यर्थः । विरोधिसामग्रीत्वेन शब्दादिसाधारणेन प्रतिबन्धकत्वादि
{{rule}}<noinclude></noinclude>
gn9irduvwfw56s6r84s9m0sxpuitypi
404859
404858
2024-12-04T09:34:45Z

af978a3ov1gv9r2wssoc5ezllqujhl5
पृष्ठम्:न्यायलीलावती.djvu/६९०
104
134322
404860
358241
2024-12-04T10:04:26Z
Swaminathan sitapathi
4227
/* शोधितम् */
404860
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Swaminathan sitapathi" />{{rh|left=|center='''न्यायलीलावतीकण्डामरण-लविवृतिप्रकाशोद्भासिता'''|right=६११}}</noinclude>
तस्याप्येतमिमग्राहकं विपक्षान्तरमस्तीति चेत् । न तस्यैव
प्रतिबन्ध सिद्धिरूपस्वाद अलं तदुपजीविनाऽन्येनेति तयोरसवात् ॥
{{gap}}लिङ्गत्वेनानिश्चितो हेतुरसिद्धः । स एवैकोऽस्तु, अन्येषा-
{{rule|5em}}
{{center|न्यायलीलावतीकण्ठाभरणम्}}
पक्षत्वमुद्भावयितुमुचितमिति भावः । तस्यापीति । प्रथमानुमानस्यापीत्यर्थः । तस्यैवेति । परस्परविरुद्धप्रत्यक्षद्वयप्रतीघातस्यैवेत्यर्थः ।
प्रतिबन्धासिद्धिरूपत्वादिति । उभयत्र व्याप्तिसन्देहापादकतया तादूपयोपचारः अलमनेन प्रतिबन्धेनेति । तयोरिति । बाघप्रतिरोधयोरित्यर्थः ।
तथाच हेत्वाभासानां चतुडाव्याघात इति भावः ।
{{gap}}लिङ्गत्वेनेति । व्यातपक्षधर्मत्वेनेत्यर्थः । तथा च व्यासपक्षधर्मत्वा-
{{center|न्यायलीलावतप्रिकाशः}}
विरोधिप्रत्यक्ष योरेव सत्प्रतिपक्षत्वं दूषणमस्तु इत्यत आह तस्यापीति ।
तस्यापि द्वितीयानुमानस्यापि, एतन्नियमग्राहकं स्थापनानुमानमूलव्याप्तिग्राहकं विपक्षान्तरं, प्रत्यक्षान्तरेण दूषणत्वरूपाभासत्वासिद्धेः तथाभूतस्यैव हेत्वाभासत्वादित्याह तस्यैवेति । वाद्युपम्यस्तविरोधिप्रत्यक्षस्यैव, प्रतिबन्धासिद्धिरूपत्वात्-प्रतिबन्धासिद्धिनिरूपकत्वात् तदुपजीविना-असिध्युपजीविना, तयोर्बाधसत्प्रतिपक्षयोर्बाधादित्यर्थः ।
{{gap}}लिङ्गत्वेनेति । लिङ्गत्वेन व्यातिपक्षधर्मतावत्त्वेन, अनिश्चितोऽप्रमित
इत्यर्थः । तेनाश्रयासिद्धिव्याप्यत्वासिद्धिस्वरूपासिद्धयः संगृहीताः ।
ननु प्रत्येक समुदायाभ्यामव्यापकम् । न च प्रत्येकाभावानुगतो व्याप्तिपक्षधर्मताविशिष्टाभावः, विशिष्टाभावाचानेऽपि व्याप्त्याद्यन्यत-
{{center|न्यायलीलावतीप्रकाशविवृतिः}}
ति भावः । प्रत्यक्षस्य न प्रतिबन्धासिद्धिरूपत्वमित्यत आह निरूपकत्वादिति । निष्पादकत्वादित्यर्थः । असिद्धसुपजीविनाऽसिद्धिनिष्पादकेन । तेनेति । व्याप्तिपक्षधर्मताप्रमितिविरहात्मकलक्षणेनेत्यर्थः । स्वरूपासिद्धय इत्यन्तमुपलक्षणम्, मितिविरहोऽपि द्रष्टव्यः । अत्र शङ्कते
ननु प्रत्येकेति । विशिष्टाभावशाने पीत्युपलक्षणं लक्ष्यताभिमतप्रमितिवि-<noinclude></noinclude>
3mcbbapeqseaig7m8ed2srxwpuww4r0
पृष्ठम्:न्यायलीलावती.djvu/६९१
104
134323
404861
358242
2024-12-04T10:41:56Z
Swaminathan sitapathi
4227
/* शोधितम् */
404861
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Swaminathan sitapathi" />{{rh|left=६१२|center='''न्यायलीलावती'''|right=}}</noinclude>
मत्रैवान्तर्भावादिति चेत् । व्याप्यत्वासियादेरन्यत्र व्यभिचा-
{{rule|5em}}
{{center|न्यायलीलावतीकण्ठाभरणम्}}
भ्यामप्रमितिरसिद्धिः, तेनाश्रयासिद्धिव्याप्यत्वासिद्धिस्वरूपासिद्धी
नां सङ्ग्रहः । विशिष्टानुमितिश्च विवक्षिता, तेन प्रत्येक प्रामेतावपि वि
शिष्टाप्रमितित्वे नानुमानादेव हेत्वाभासत्वम्, प्रत्येकाप्रमितावपि
विशिष्टाप्रीमतत्वप्रतिसन्धानमन्तरेण नानुमितिप्रतिबन्धकत्वम् ।
{{gap}}वस्तुतः स्वरूपसत्या एवाऽस्या आभासत्वम्, न हि कारणवि
घटनमपि ज्ञातं सरकार्यं विघटयति व्यभिचारादावपि व्याप्तिपक्षधर्मअन्यतरानिश्चय स्यावश्यकत्वादित्यर्थः । व्याप्यत्वासिध्धेदेरित्यादि
पदादाश्रयासिद्धिसङ्ग्रहः | बाधस्थले पक्ष एव व्यभिचारेणाश्रयासि-
{{center|न्यायलीलावतीप्रकाशः}}
राभावज्ञानेनोद्भावनेन च स्वपरानुमितिप्रतिबन्धात्, अन्यथा तेषां
हेत्वाभासान्तरतापत्तेः, प्रमितिविरहाशानेऽपि प्रत्येकज्ञानस्यादोष
त्वाच्च । किञ्च स्वप्रमितिविरहस्य विवक्षितत्वे सद्धेतुसाधारण्यं,
कदाचित्तत्रापि प्रमितिविरहात् । सकलप्रमितिविरहस्य च तत्त्वे तज्ज्ञानमशक्यं, परप्रमितीनामयोग्यत्वेन तदद्भावस्यायोग्यत्वात्,
स्वरूपतश्च तस्य प्रतिबन्धकत्वे ज्ञानगर्भहेत्वाभासत्वानुपपत्तिः ।
अत्राहुः। व्याप्तिपक्षधर्मताभ्यां निश्चयः सिद्धिस्तदभावोऽसिद्धिः, सा
च स्वरूपसत्येव दूषिका कारणाभावत्वात् । न चैवंसति सत्र्यभिचारादेरण्यत्रैवान्तर्भावसङ्गः, स्वरूपसत्या पवासिद्धेदर्दोषत्वेन स्वज्ञानार्थमलियनुपजीव्यत्वादिति वाच्यम् । स्वज्ञानार्थमसिद्ध्यनुपजीव्यत्वेऽपि व्यभिचारादिसत्त्वात् सिद्धिर्नोत्पद्यत एवेति सव्यभिचारादेरुपजीव्यत्वात् स एवैक इति व्याप्तिपक्षधर्मतां तत्प्रमिति चाविरुन्धतां हेतुदूषणत्वाभावादित्यर्थः । व्याप्यत्वासिद्ध्यादेरिति । आदिप-
{{center|न्यायलीलावती प्रकाशविवृतिः}}
रहाव्यातिश्चेत्यपि बोद्धव्यम् । ननु प्रमितिविरह एवासिद्धिस्तत्त्वं
च तल्लक्षणमित्यत आह प्रमितिविरहाज्ञानेपीति । प्रत्येकेति । व्याप्त्यभावपक्षधर्मताविरहेत्यर्थः । ज्ञानगर्भेति । ज्ञायमानस्यैव हेत्वाभासत्वमिति
स्त्रमते पूर्वपक्षिणो निर्भरतयेदं दूषणम् । अतएव तदनभ्युपगमेनैव
सिद्धान्तः । व्यभिचारादेरुपजीव्यत्वादिति । यद्यप्य व्यभिचारात्मकव्याप्त्य-<noinclude></noinclude>
jh2f0m436qjc0opxr5k73zgmlfxbq4j
पृष्ठम्:न्यायलीलावती.djvu/६९२
104
134324
404862
358243
2024-12-04T11:19:41Z
Swaminathan sitapathi
4227
/* शोधितम् */
404862
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Swaminathan sitapathi" />{{rh|left=|center='''न्यायलीलावतकण्ठाभरण- सविवृतिप्रकाशोद्भासिता'''|right=६१३}}</noinclude>
राधुपजीवकत्वात् । ननु नियमनिक्ष्चयमागभावस्थात्यन्ताभावस्य
वाऽहेतुकत्वेनोत्पत्तावनपेक्षत्वात् ज्ञप्तेरपि मानसप्रत्यक्षाधीनत्वात् न प्रतिबन्धासिद्धेर्व्याभिच रोपजीवकत्वमिति (चेत् । न) व्यभिचारिषु प्रतिबन्धानुपलम्भस्य प्रतिवन्धाभावहेतुकत्वात्, कारणाभावात्कार्याभावस्य सर्वमतसिद्धत्वादुपजीवकत्वस्थितिरिति
{{rule|5em}}
{{center|न्यायला लावतीकण्ठाभरणम्}}
ध्यादेरप्युन्नयनात् । अन्यत्रेति । यत्र न सिद्धसाधनात्पक्षताहानिरित्यर्थः । तत्र व्यभिचारादीनामसत्त्वान्नोपजीव्यत्वमिति भावः । ननु
चासिद्धिनिश्चयः स च नोत्पत्यर्थं व्यभिचारापजविति, न वा
ज्ञप्त्यर्थमतः कथमुपजीव्यत्वमित्याशङ्कते नन्विति | मानसेति । निश्चयाभावस्यापि मनोवेद्यत्वात्तथाच पारमर्षे सूत्रम् "ज्ञानविकल्पानां
भावाभावसंवेदनादध्यात्मम्-" इति । तथाचोत्पत्तौ ज्ञप्तौ वा नासिद्धेर्व्याभिचार उपजीव्य इत्यर्थः । परिहरति व्यभिचारिष्विति । प्रतिबन्धाभावो हि व्यभिचारस्तदधीन एव तद्नुपलम्भः, यदि हि प्रतिबन्धः
स्यादुपलभ्येत, तथाच प्रतिबन्धाभावाधीन एव उपलम्भाभाव इत्यर्थः । आक्षिप्तैवकग्रन्थेनाह कारणाभावादिति । कारणं हि विषयतया
{{center|न्यायलीलावतीप्रकाशः}}
देना पक्षधर्मत्व संग्रह, बाधरूपव्यभिचारेण सन्देहाभावादपक्षधर्मतोन्नयनात् । तत्र व्याप्यत्वासिद्धि सम्भवेऽपयुद्भावनप्रकार भेदेनापक्षधर्मत्वस्याप्युद्भावनात् । व्यभिचारिष्विति । तथाच व्यभिचारोपजीवक
त्वमेवासिद्धेरित्यर्थः । कारणाभावादिति । कारणाभावस्य प्रतिबन्धाभा-
{{center|न्यायलीलावतीप्रकाशविवृतिः}}
नुपलम्भस्यापि व्यभिचारनिश्चायकत्वे वैपरीत्यमपि, तथापि स्वार्थानुमाने इत्यादिसूलेन वश्यमाणमेवात्र समाधानम् । व्याप्यत्वासिघ्घादेरन्यत्रेति मूलं व्यभिचारिप्रयुक्त सिद्धिविरहस्थल इत्यर्थः । नन्वित्यादिमूले व्यभिचारोपजीवकत्वमित्यनन्तरमिति चेदिति क्वचित् पाठः । व्यभिचारिष्विति । पूर्वे नपदं च । क्वचित्तच्छ्रन्यः, न शब्दलोपश्च । तत्र
प्रथमपक्षे नेत्यादिना हेतुकत्वादित्यन्तेन प्रथमपूर्वपक्षसमाधाने पुनः
पूर्वपक्षिणा कारणाभावादित्यादिनाऽभावावगतिरिति चेदित्य-<noinclude></noinclude>
2ebmgsqoa2pgnoa1u91p4ur5rdyy6l1
सदस्यः:Sima Xess
2
162842
404852
2024-12-04T05:37:35Z
Sima Xess
9332
उपनिषद:
404852
wikitext
text/x-wiki
उपनिषदः
उपनि उपसर्गाभ्या सद्ले धातोः विवप् इति उपनिषद् इति शब्दः निष्पद्यते । सद्लृ धातोः त्रयः अर्थाः सन्ति । यथा-विशरण- गति- अवसादनेषु इति। अतः उपनिषद् इत्यस्याभिप्रायः अविद्यायाः विशरणम् (नाशः), ब्रह्मविद्यायाः प्राप्तिः, तथा दुःखानाम् अवसादनं शिथिलीकरणम् इति । अस्याः अपरं नाम ज्ञानकाण्डम् ब्रह्मविद्या पराविद्या इत्युच्यते । साम्प्रतं प्रसिद्धाः ईश-केन-कठ- वृहदारण्यक-तैतरीयस्य प्रसिद्धान् मन्त्रान् पश्यामः।
आसन् उपनिषदः । यथा- ऋग्वेद-१० शुक्लयजुर्वेदे-१९, कृष्णयजुर्वेदे-३२० (16) मुक्तिकोपनिषदि चतुर्ष वेदेषु १० सामवेदे -१६, अथर्ववेदे ३१ अधुना तु दश उपनिषदः लोके दृश्यन्ते । ताः यथा-ईश-केन-कठ-प्रश्न-मुण्ड-माण्डूक्य- तैत्तिरीय-ऐतरेय-छान्दोग्य-बृहदारण्यकोपनिषदः । तत्र एतासाम् उपनिषदाम् अन्तर्भावः कस्मिन् कस्मिन् वेदे भवति इति सारण्या सूचितोऽस्ति ।
दशोपनिषदों सामान्यपरिचयः-
ईशावास्योपनिषद्- अस्याः उपनिषदः आदिमपदम् ईश अस्तीति कृत्वा अस्याः नाम ईशोपनिषद् । अत्र ईश्वरस्य सर्वव्यापकता वर्तते । अत्र कर्मापासनायाः विस्तृतवर्णना दृश्यते । अत्र विद्या-अविद्या-सम्भुति-असम्भुतिविषये वर्तते । अत्र १८ मन्त्रीः सन्ति । अस्याः उपनिषदः अपरं नाम मन्त्रोपनिषद) इति । ईशावास्यमिदं सर्वमित्यादिपदस्याधारे अस्याः नामकरणमस्ति । अत्र ब्रह्मणः स्वरूपवर्णनान्तरं विद्या-अविद्या सम्भूति-असम्भूत्यादीनां विवेचनं विद्यते । इयमेव उपनिषद् सर्वाग्रगण्या भवति ।
केनोपनिषद्-तवल्कारशाखायाः ९ अध्याये केनोपनिषद् वर्तते । अस्याः अपरं नाम (ब्रह्मोपनिषद्) इति । अत्र चत्वारः खण्डाः सन्ति। यथा ब्रह्मोपनिषद्, ब्रह्मणः रहस्यस्वरूपम्, ब्रह्मणः महिमा, उमाहैमवत्युपाख्यानम् इति । अस्याः प्रथमपावे केन इत्यस्मात् आरब्धः इति कृत्वा अस्याः नाम केनोपनिषद् इति । भगवतः परंब्रह्मणः अपेक्षया देवानां शक्तिः न्यूना वर्तते इति उमाहैमवत्युपाख्याने वर्णितमस्ति ।
कठोपनिषद- इयम् उपनिषद् कठशाखातः आनीता इति कृत्वा अस्याः नाम कठोपनिषद् इति । अत्र अध्यायद्वयम्, प्रत्येकस्मिन् अध्याये (तिस्रः वल्लयः सन्ति । अत्र यमनचिकेता उपाख्यानं वर्तते। झूठ यमनचिकेतसोः परस्परब्रह्मज्ञानविषयकः संवादः प्रचलति। अत्र नेह नानास्ति किञ्चन इति मन्त्रः सर्वदा आयाति । अत्र १८० पद्यानि सन्ति ।
प्रश्नोपनिषद्-अस्याम् उपनिषद् पिप्पल्लादस्य शिष्याः षट् प्रश्नान् पृच्छन्ति इति कृत्वा अस्याः प्रश्नोपनिषद् इति नाम्ना अभिहितम् । इयं पिप्पलादशाखायाः आगता। अत्रषिट् शिष्याः यथा भरद्वाजस्य पुत्रः सुकेशा, शिवस्य पुत्रः सत्यवान्, आश्वलायनः, भार्गवः, कात्यायनः, कवन्धी इति । एते षट्शिष्याः ब्रह्मविद्याविषये प्रश्नान् पृष्टवन्तः तेषां समेषां समाधानं पिप्पलादः ऋषिः उक्तवान् इति । तत्र प्रथमप्रश्नः यथा प्रजायाः उत्पत्तिः कस्मात् स्थानात् भवति द्वितीयः प्रजानां धारणं कः करोति । तृतीयः कथं प्राणानामुत्पत्तिः भवति । चतुर्थः स्वप्नजागरणादीनां विषयाः के । पञ्चमः ओङ्कारस्य उपासना कथं भृवति । षष्ठः षोडशसंख्यकपुरुषस्य विवेचनं कथं भवतीति । अस्य सम्पूर्णस्यापि जगतः कर्ता अक्षरब्रह्मास्ति इति पिप्पलादः ब्रवीति ।
मुण्डकोपनिषद् अस्याः कर्ता ऋषिः मुण्डकः भवति । तदर्थं अस्याः नाम मुण्डकोपनिषद् इति नाम्ना अभिहितम् अस्ति । अस्याः (त्रिय मुण्डकाः (अध्यायाः) सन्ति । तत्र प्रथममुण्डके ब्रह्मविषयः, द्वितीये ब्रह्मस्वभावः, तृतीये ब्रह्मप्राप्तिः इत्यादयः विषयाः आलोचिताः सन्ति । द्वा सुपर्णा सयूजा सखायाः इति वर्तते अस्यामुपनिषदि । इयं उपनिषद् स्वल्पकारिका वर्तते । अस्यामुपनिषदि साङ्ख्यवेदान्तयोः तथ्यानामपि यत्किञ्चित्प्रभावः परिलक्ष्यते ।
माण्डुक्योपनिषद्-अस्यां १२ खण्डाः सन्ति । अत्र आत्मनः चतस्त्रः अवस्थाः जाग्रत, स्वप्न, सुसुप्ति, अद्वैत इत्यादिविषये आलोचिताः । आत्मनः चत्वारः भेदाः प्रदर्शिताः सन्ति अत्र यथा वैश्वानरः तैजसः प्राज्ञः शिवः इति । एतेषु अन्तिमः एव चैतन्यात्मनो विशुद्धरूपमस्तीति ।
तैतरीयोपनिषद्- अस्याः कर्ता तितिरिः भवति । इयमुपनिषद् ऐत्तिरीयारण्यकाद् आयाति । अत्र त्रयः विभागाः, तिस्त्रः वल्लयः यथा- शिक्षावल्ली (वर्णः, स्वरः, मात्रा, वलं, साम, सन्तानः), भूगुवल्ल्त्यां ब्रह्मतत्त्वंम्, ब्रह्मानन्दवल्ल्यां ब्रह्मप्राप्तिः इत्यादयः विषयाः आलोचिताः सन्ति ।
gmbclkm5q7rcy3anwoqvkn9pp87jzzr